Book Title: Ogh Niryukti Part 02
Author(s): Gunhansvijay, Bhavyasundarvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 859
________________ श्री सोध-त्यु નિયુક્તિ | ભાગ-૨ ॥८५०॥ मा भावुगअभावुगाणि य लोए दुविहाई हुंति दव्वाइं । वेरुलिओ तत्थ मणी अभावुगो अन्नदव्वेणं ॥७७५॥ ऊणगसयभागेणं बिंबाइं परिणमंति तब्भावं । लवणागराइसु जहा वज्जेह कुसीलसंसग्गी ॥७७६॥ वर्जयित्वाऽनायतनमायतनस्य गवेषणं 'सदा' सर्वकालं कुर्यात्, तत्पुनरनायतनं द्रव्यतो भावतश्च ज्ञेयम् । तत्र द्रव्यानायतनं प्रतिपादयन्नाह - 'द्रव्ये' द्रव्यविषयमनायतनं रुद्रादीनां गृहम् । इदानीं भावतोऽनायतनमुच्यते, तत्र भावतो द्विविधमेव-लौकिकं लोकोत्तरं च, तत्रापि लौकिकमनायतनमिदं वर्त्तते - 'खरिए 'त्ति व्यक्षरिका यत्रास्ते तदनायतनं, तथा तिर्यग्योनयश्च यत्र तदप्यनायतनं, तालायरा-चारणास्ते यत्र तदनायतनं, श्रमणा:-शाक्यादयस्ते यत्र, तथा ब्राह्मणा यत्र तदनायतनं, श्मशानं चानायतनं, तथा वागुरिका-व्याधा गुल्मिका-गोत्तिपाला हरिएसा पुलिन्दा मत्स्यबन्धाश्च यत्र तदनायतनमिति, एतेषु चानायतनेषु क्षणमपि न गन्तव्यम्, तथा चाह-क्षणमपि न 'क्षणं' योग्यमनायतनं गन्तुं, तथा सेवना चानायतनस्य सुविहितानां कर्तुं 'न क्षम' न युक्तं, यतोऽयं दोषो भवति-'जंगंधं होइ वणं तंगधं मारुओ वाति 'त्ति ॥८५०॥

Loading...

Page Navigation
1 ... 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894