Book Title: Ogh Niryukti Part 02
Author(s): Gunhansvijay, Bhavyasundarvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
आराहणाइ जुत्तो सम्म काऊण सुविहिओ कालं । श्रीमोध-न्धु નિર્યુક્તિ
उक्कोसं तिन्नि भवे गंतूण लभेज्ज निव्वाणं ॥८१०॥ ભાગ-૨
तत एवमालोच्य गारवरहिता मुनयः 'उद्धरन्ति' उत्पाटयन्ति मूलं पुनर्भवलतानां येन मिथ्यादर्शनशल्यं मायाशल्यं
निदानशल्यं चोद्धरन्तीति । सुगमा, नवरम्-अतिरेकम्-अत्यर्थं लघुर्भवति, 'ओहरितभारो' उत्तारितभार: 'भारवहः' ॥८७७॥ मा
ण गर्दभादिः स यथा लघुर्भवति एवमालोचिते सति कर्मलधुत्वं भवतीति । यश्चैवंविधः स उद्धृतसर्वशल्यः भत्तपरिणाए'। स्म भक्तप्रत्याख्याने 'धनिकम्' अत्यर्थम् 'आयुक्तः' प्रयत्नपरो मरणाराधनयुक्तः, स एवंविधश्चन्द्रकवेधं 'समानयति'
करोतीत्यर्थः । अत्र च कथानकं राधावेधे आवश्यकादवसेयमिति । किञ्च-आराधनया युक्तः प्रयत्नपर: सम्यक् कृत्वा , ग सुविहितः कालं पुनश्च 'उत्कृष्टतः' अतिशयेन सम्यगाराधनां कृत्वा त्रीन् भवान् गत्वा 'निर्वाणं' मोक्षमवश्यं प्राप्नोतीति, ग | एतदुक्तं भवति-यदि परमसमाधानेन सम्यक् कालं करोति ततस्तृतीये भवेऽवश्यं सिद्ध्यतीति । आह पर: -
उत्कृष्टतोऽष्टभवाभ्यन्तरे सामायिकं प्राप्य नियमात्सिद्ध्यतीति, जघन्यतः पुनरेकस्मिन्नेव भवे सामायिकं प्राप्य सिद्ध्यतीत्युक्तं ग्रन्थान्तरे, ततश्च यदुक्तं त्रीन् भवानतीत्य सिद्ध्यति तदेतन्नाप्युत्कृष्टं नापि जघन्यं ततश्च विरोध इति, उच्यते अनालीढसिद्धान्तसद्भावेन यत्किञ्चिदुच्यते , यत्तदुक्तं जघन्यत एके नैव भवेन सिद्ध्यतीति तद्वज्रर्षभनाराचसंहननमङ्गीकृत्योक्तं, एतच्च छेवट्टिकासंहननमङ्गीकृत्योच्यते, छेवट्टिकासंहननो हि यद्यतिशयेनाराधनं
"८७७॥

Page Navigation
1 ... 884 885 886 887 888 889 890 891 892 893 894