________________
श्री सोध-त्यु નિયુક્તિ | ભાગ-૨
॥८५०॥ मा
भावुगअभावुगाणि य लोए दुविहाई हुंति दव्वाइं । वेरुलिओ तत्थ मणी अभावुगो अन्नदव्वेणं ॥७७५॥ ऊणगसयभागेणं बिंबाइं परिणमंति तब्भावं ।
लवणागराइसु जहा वज्जेह कुसीलसंसग्गी ॥७७६॥ वर्जयित्वाऽनायतनमायतनस्य गवेषणं 'सदा' सर्वकालं कुर्यात्, तत्पुनरनायतनं द्रव्यतो भावतश्च ज्ञेयम् ।
तत्र द्रव्यानायतनं प्रतिपादयन्नाह - 'द्रव्ये' द्रव्यविषयमनायतनं रुद्रादीनां गृहम् । इदानीं भावतोऽनायतनमुच्यते, तत्र भावतो द्विविधमेव-लौकिकं लोकोत्तरं च, तत्रापि लौकिकमनायतनमिदं वर्त्तते -
'खरिए 'त्ति व्यक्षरिका यत्रास्ते तदनायतनं, तथा तिर्यग्योनयश्च यत्र तदप्यनायतनं, तालायरा-चारणास्ते यत्र तदनायतनं, श्रमणा:-शाक्यादयस्ते यत्र, तथा ब्राह्मणा यत्र तदनायतनं, श्मशानं चानायतनं, तथा वागुरिका-व्याधा गुल्मिका-गोत्तिपाला हरिएसा पुलिन्दा मत्स्यबन्धाश्च यत्र तदनायतनमिति,
एतेषु चानायतनेषु क्षणमपि न गन्तव्यम्, तथा चाह-क्षणमपि न 'क्षणं' योग्यमनायतनं गन्तुं, तथा सेवना चानायतनस्य सुविहितानां कर्तुं 'न क्षम' न युक्तं, यतोऽयं दोषो भवति-'जंगंधं होइ वणं तंगधं मारुओ वाति 'त्ति
॥८५०॥