________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरः। सेनापतिः कथं नात्र राजन्नभ्यधिको वद । यस्तथा स्वामिने भक्त्या स्वां भार्या तां तथाविधाम् ॥ ३१ ॥ स्वचिरं ज्ञातसंभोगसुखास्वादोऽप्युपानयत् । आत्मानं चाग्निसाच्चके तस्मिन्पश्चत्वमागते ॥ ३२ ॥ अनास्वादिततद्भोगस्तत्कान्तां तु जहौ नृपः । इति पृष्टः चाहैनं किं चित्रं कुलपुत्रकः ॥ ३३ ॥ सेनापतिः स्वभक्त्या यत्स्वाम्यर्थ तत्तथाकरोत् । प्राणैरपि च दासानां स्वामिसंरक्षणं हितम् ॥ ३४ ॥ राजानस्तु सदामाता गजा इव निरंकुशाः । छिन्दन्ति धर्ममर्यादाशृङ्खलां विषयोन्मुखाः ॥ ३५ ॥ तेषां छुद्रिक्तचित्तानामभिषेकाम्बुभिः समम् । विचारो विगलत्योधेनोह्यमान इवाखिलः ॥ ३६ ॥ क्षिप्यन्त इव चोझ्यचलञ्चामरमारुतैः । वृद्धोपदिष्टशास्त्रार्थरजोमषकमक्षिकाः ॥ ३७ ॥ आतपत्रेण सत्यं च सूर्यालोको निवर्तते । विभूतिवात्योपहता दृष्टिर्मार्ग च नेक्षते ॥ ३८ ॥ तदेते वि[३९ बापदं प्राप्ता मारमोहितचेतसः । जगद्विजयिनोऽपीह राजानो नहुषादयः ।। ३९॥ एष राजा पुनः पृथ्व्यामेकच्छत्रोऽपि यत्तथा । उन्मादिन्या चपलया लक्ष्म्येव न विमोहितः ॥ ४० ॥ प्राणानपि च धर्मात्मा तत्याज न पुनः पदम् ।
अमार्गे निदधे धीरस्तेनासौ मेऽधिको मतः ॥ ४१ ॥ इति नीतिकल्पे प्रजासर्गराजसर्गकथनाभिधं पञ्चत्रिंशं कुसुमम् ।।*
* This aught to have been numbered as thirty-six. The copyist seems to have forgotten to count 'मन्त्रिपुण्यकथनाभिधं कुसुमम्। We have, therefore, marked this as ( 34 37 ) so as to keep the original order as we have done in the case of the 9th Kusum.
For Private and Personal Use Only