Book Title: Niti Kalptaru
Author(s): V P Mahajan
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 275
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६२ नीतिकल्पतरुः। स्वरसेन तस्या एव विदारिकाया रसेन । मुहुर्मुहुः सप्तकृत्वः । भावितं मर्दितम् । तथा । धात्रीफलानां स्वरसेन चूर्ण सुभावितं क्षौद्रसिताज्ययुक्तम् । लीढ़ानुपीत्वा च पयोऽग्निशक्त्या कामं निकामं पुरुषोऽनुसेवेत् ॥२९॥ धात्रीफलान्यामलकानि । क्षीरेण बस्ताण्डयुजा शृतेन संप्लाव्य कामी बहुशीतलान्यः । संशोषितानत्ति पयः पिबेञ्च तस्याग्रतः किं चटकः करोति॥३०॥ बहुश इति सप्तवारम् । माषसूपसहितेन सर्पिषा षष्टिकौदनमदन्ति ये नराः । क्षीरमप्यनुपिबन्ति तासु ते शर्वरीषु मदनेन शेरते ॥ ३१ ॥ तिलाश्वगन्धाकपिकच्छुमूलैर्विदारिकाषष्टिकपिष्टयोगः । आज्येन पिष्टः पयसा घृतेन पक्क भवेच्छष्कुलिकातिवृष्या ॥३२॥ आज्यमत्र छागीयम् क्षीरेण वा गोक्षुरकोपयोगं विदारिकाकन्दकभक्षणं वा । कुर्वन सीदेवदि जीर्यतेऽस्य मन्दाग्निता चेदिदमत्र चूर्णम् ॥३३॥ गोक्षुरकैः सह क्षीरं क्वाथयित्वा पिबेदित्येको योगः, विदारिकामूलं क्षीरेण काथयित्वा पिबेदिति द्वितीयः । [१०८यद्यस्य कामुकत्वं जीर्यतेऽपगच्छति तथा मन्दाग्निता वा तदेदमत्र चूर्णम् । साजमोदलवणा हरीतकी शृंगवेरसहिता च पिप्पली । मद्यतकतरलोष्णवारिभिश्चूर्णपानमुदराग्निदीपनम् ॥ ३४ ॥ मधेत्यादि । एषामन्यतमेन तरलमत्र काञ्चिकम् । अत्यम्बुतिक्तलवणानि कटूनि वात्ति यः क्षारशाकबहुलानि च भोजनानि । दृक्शुक्रवीर्यरहितः स करोत्यनेकान् व्याजान् जरन्निव युवाप्यबलामवाप्य ॥३५ द्रव्यसंयोगं कृत्वा दग्ध्वा च क्षारो रच्यते इति । इति वाजीकरणम् । इति प्रसादकलक्षणाभिधं कुसुमम् ॥ ३३ ।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302