________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६२
नीतिकल्पतरुः।
स्वरसेन तस्या एव विदारिकाया रसेन । मुहुर्मुहुः सप्तकृत्वः । भावितं मर्दितम् । तथा ।
धात्रीफलानां स्वरसेन चूर्ण सुभावितं क्षौद्रसिताज्ययुक्तम् । लीढ़ानुपीत्वा च पयोऽग्निशक्त्या कामं निकामं पुरुषोऽनुसेवेत् ॥२९॥ धात्रीफलान्यामलकानि ।
क्षीरेण बस्ताण्डयुजा शृतेन संप्लाव्य कामी बहुशीतलान्यः ।
संशोषितानत्ति पयः पिबेञ्च तस्याग्रतः किं चटकः करोति॥३०॥ बहुश इति सप्तवारम् ।
माषसूपसहितेन सर्पिषा षष्टिकौदनमदन्ति ये नराः । क्षीरमप्यनुपिबन्ति तासु ते शर्वरीषु मदनेन शेरते ॥ ३१ ॥ तिलाश्वगन्धाकपिकच्छुमूलैर्विदारिकाषष्टिकपिष्टयोगः ।
आज्येन पिष्टः पयसा घृतेन पक्क भवेच्छष्कुलिकातिवृष्या ॥३२॥ आज्यमत्र छागीयम्
क्षीरेण वा गोक्षुरकोपयोगं विदारिकाकन्दकभक्षणं वा ।
कुर्वन सीदेवदि जीर्यतेऽस्य मन्दाग्निता चेदिदमत्र चूर्णम् ॥३३॥ गोक्षुरकैः सह क्षीरं क्वाथयित्वा पिबेदित्येको योगः, विदारिकामूलं क्षीरेण काथयित्वा पिबेदिति द्वितीयः । [१०८यद्यस्य कामुकत्वं जीर्यतेऽपगच्छति तथा मन्दाग्निता वा तदेदमत्र चूर्णम् ।
साजमोदलवणा हरीतकी शृंगवेरसहिता च पिप्पली ।
मद्यतकतरलोष्णवारिभिश्चूर्णपानमुदराग्निदीपनम् ॥ ३४ ॥ मधेत्यादि । एषामन्यतमेन तरलमत्र काञ्चिकम् । अत्यम्बुतिक्तलवणानि कटूनि वात्ति यः क्षारशाकबहुलानि च भोजनानि । दृक्शुक्रवीर्यरहितः स करोत्यनेकान् व्याजान् जरन्निव युवाप्यबलामवाप्य ॥३५ द्रव्यसंयोगं कृत्वा दग्ध्वा च क्षारो रच्यते इति ।
इति वाजीकरणम् । इति प्रसादकलक्षणाभिधं कुसुमम् ॥ ३३ ।।
For Private and Personal Use Only