________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
२६१ याते द्वितीये प्रहरे विहाय दद्याच्छिरस्यामलकालेपम् । संछाद्यपत्रैः प्रहरद्वयेन प्रक्षालिते कार्ण्यमुपैति शीर्षम् ॥१९॥ पश्चाच्छिरःस्नानसुगन्धतैलैलॊहाम्लगन्धं शिरसोऽपनीय । हृयैश्च गन्धैर्विविधैश्च धूपरन्तःपुरे राज्यसुख निषेवेत् ॥२०॥ सप्ताहं गोमूत्रे हरीतकीचूर्णसंयुते क्षिप्त्वा । गन्धोदके च भूयो विनिक्षिपेद्दन्तकाष्ठानि ॥ २१ ॥ एलात्वपत्राञ्जनमधुमरिचैर्नागपुष्पकुष्ठश्च । गन्धाम्भः कर्तव्यं किंचित्कालं स्थितान्यस्मिन् ॥ २२ ॥ जातीफलपत्रैलाकरैः कृतयमैकशिखिभागैः ।
अवचूर्णितानि भानोर्मरीचिभिः शोषणीयानि ॥ २३ ॥ वर्णप्रसादं वदनस्य कान्ति वैशद्यमास्यस्य सुगन्धितां च । संसेवितुः श्रोत्रसुखां च वाचं कुर्वन्ति काष्ठान्यसकृद्भवानाम् ॥ २४ ॥ कामं प्रदीपयति रूपमभिव्यनक्ति सौभाग्यमावहति वक्त्रसुगन्धितां च । ऊर्ज करोति कफांश्च निहन्ति रोगांस्ताम्बूलमेवमपरांश्च गुणान् करोति ॥२५॥ अथ प्रसङ्गाद्वाजीकरणमपि किञ्चिन्मात्रेण लिखते।
माक्षीकधातुमधुपारदलोहचूर्ण पथ्याशिलाजतुविसुंगफलानि योऽद्यात् । सैकानि विंशतिरहानि जरान्वितोऽपि
सोऽशीतिकोऽपि रमयत्यबलां रसेन ।। २६ ॥ माक्षीकधातुः पाषाणमाक्षिकम् । मधु क्षौद्रम् । पथ्या हरीतकी । [१०७ब] अत्र च घृतयोजना शिष्यते । तथा च एतानि घृतमात्राणि गृहीत्वा सममात्राभ्यां भावयित्वा गुलिका कार्या इति ।
क्षीरं शृतं यः कपिकच्छुमूलैः पिबेत्क्षयं स्त्रीषु न सोऽभ्युपैति । माषान्पयः सर्पिषि वा विपक्कान् षड्मासमात्रांश्च पयोऽनुपानात् ।।२७॥ क्षीरमेव निमर्थ्य यत् घृतमुत्पद्यत तत्पयोघृतम् । पयोऽनुपानादिति । अनु पश्चाद् पयसः पानं कर्तव्यमिति ।
विदारिकायाः स्वरसेन चूर्ण मुहुर्मुहुर्भावितशोषितं च । शृतेन दुग्धेन सशर्करेण पिबेत् स यस्य प्रमदाः प्रभूताः॥२८॥
For Private and Personal Use Only