Book Title: Niti Kalptaru
Author(s): V P Mahajan
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 274
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः। २६१ याते द्वितीये प्रहरे विहाय दद्याच्छिरस्यामलकालेपम् । संछाद्यपत्रैः प्रहरद्वयेन प्रक्षालिते कार्ण्यमुपैति शीर्षम् ॥१९॥ पश्चाच्छिरःस्नानसुगन्धतैलैलॊहाम्लगन्धं शिरसोऽपनीय । हृयैश्च गन्धैर्विविधैश्च धूपरन्तःपुरे राज्यसुख निषेवेत् ॥२०॥ सप्ताहं गोमूत्रे हरीतकीचूर्णसंयुते क्षिप्त्वा । गन्धोदके च भूयो विनिक्षिपेद्दन्तकाष्ठानि ॥ २१ ॥ एलात्वपत्राञ्जनमधुमरिचैर्नागपुष्पकुष्ठश्च । गन्धाम्भः कर्तव्यं किंचित्कालं स्थितान्यस्मिन् ॥ २२ ॥ जातीफलपत्रैलाकरैः कृतयमैकशिखिभागैः । अवचूर्णितानि भानोर्मरीचिभिः शोषणीयानि ॥ २३ ॥ वर्णप्रसादं वदनस्य कान्ति वैशद्यमास्यस्य सुगन्धितां च । संसेवितुः श्रोत्रसुखां च वाचं कुर्वन्ति काष्ठान्यसकृद्भवानाम् ॥ २४ ॥ कामं प्रदीपयति रूपमभिव्यनक्ति सौभाग्यमावहति वक्त्रसुगन्धितां च । ऊर्ज करोति कफांश्च निहन्ति रोगांस्ताम्बूलमेवमपरांश्च गुणान् करोति ॥२५॥ अथ प्रसङ्गाद्वाजीकरणमपि किञ्चिन्मात्रेण लिखते। माक्षीकधातुमधुपारदलोहचूर्ण पथ्याशिलाजतुविसुंगफलानि योऽद्यात् । सैकानि विंशतिरहानि जरान्वितोऽपि सोऽशीतिकोऽपि रमयत्यबलां रसेन ।। २६ ॥ माक्षीकधातुः पाषाणमाक्षिकम् । मधु क्षौद्रम् । पथ्या हरीतकी । [१०७ब] अत्र च घृतयोजना शिष्यते । तथा च एतानि घृतमात्राणि गृहीत्वा सममात्राभ्यां भावयित्वा गुलिका कार्या इति । क्षीरं शृतं यः कपिकच्छुमूलैः पिबेत्क्षयं स्त्रीषु न सोऽभ्युपैति । माषान्पयः सर्पिषि वा विपक्कान् षड्मासमात्रांश्च पयोऽनुपानात् ।।२७॥ क्षीरमेव निमर्थ्य यत् घृतमुत्पद्यत तत्पयोघृतम् । पयोऽनुपानादिति । अनु पश्चाद् पयसः पानं कर्तव्यमिति । विदारिकायाः स्वरसेन चूर्ण मुहुर्मुहुर्भावितशोषितं च । शृतेन दुग्धेन सशर्करेण पिबेत् स यस्य प्रमदाः प्रभूताः॥२८॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302