Book Title: Niti Kalptaru
Author(s): V P Mahajan
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 279
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६६ नीतिकल्पतरः। भयं च शय्यासु तदीश्वराणां याने भषन्तो भयदाश्च पश्चात् । अथापसव्या जनसन्निवेशे भयं भषन्तः कथयन्त्यरीणाम् ॥ २२ ॥ इति श्वरवलक्षणाभिधं कुसुमम् । [१३६ ] तथेतीत्यमेव कार्यानुसारेण परेऽपि सुधीभिः संग्राह्या इति । तथा च पुष्करः । 'कार्याण्यपरिमेयानि तथा चित्राणि भूभुजाम् । उत्तमाधममध्यानि बुद्धा तानि च पार्थिवः ॥ १ ॥ उत्तमाधममध्यांस्तु पुरुषान्विनियोजयेत् । धर्मिष्ठान्धर्मकार्येषु शूरान्संग्रामकर्मसु ॥ २ ॥ निपुणानर्थकृत्येषु सर्वत्र च तथा शुचीन् । स्त्रीषु षण्ढा नियुञ्जीत तीक्ष्णान्दारुणकर्मसु ॥ ३ ॥ धर्मे चार्थे च कामे च भये चैव तथा नृपः । औचित्याधिकृतान्कुर्यादुपाधिसुपरीक्षितान् ' ॥ ४ ॥ इति इति कर्मोचितपुरुषकथनं नाम कुसुमम् । [१३७] अथ च परे संग्राह्या इति अन्योऽपि भावोऽत्राभिप्रेतः । ये केचनापरे स्वकीयाः परम्परागतास्ते सर्वेऽपि निमित्तवशादितस्ततो गता अवाप्तराज्येन ततस्ततोपसार्य स्ववशे सम्यक् स्थाप्या इति । तथा च[११०]मार्कण्डेयः-- पितृपैतामहान्मृत्यान् सर्वकर्मसु योजयेत् । विना दायादकृत्यानि तत्र ते हि समा मताः ॥ १॥ राजा दायादकृत्येषु परीक्ष्य स्वपरानरान् । नियुञ्जीत महाबुद्धिः तस्य ते हितकारिणः ॥२॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302