Book Title: Niti Kalptaru
Author(s): V P Mahajan
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 280
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नीतिकल्पतरुः । इति । तेषां दायादेषु समत्त्वात्तयोजनेऽवश्यमनर्थोदयः स्यादिति सम्यक् 1 स्थाप्या इति संशब्देन सूचितम् । Acharya Shri Kailassagarsuri Gyanmandir इति परंपरागत भृत्यनिरूपणं नाम कुसुमम् । [ १३८ ] अथ ये परे च संग्राह्या इति । ये केचित्परे परकीयाः सेवार्थं परदेशादागतास्ते सर्वे संग्रहार्थे अवश्यं स्वस्वौचित्या सेवका विधेयाः । तत्रापि ये तेषु परे परकीयत्वेनैव संभावितास्ते न संग्राह्या इत्यकार प्रश्लेषेणावृत्या योज्यम् न ते सम्यकरीत्या स्वकीयत्वेन ग्राह्या इति । भृत्या विधेया एव परन्तु विश्वासास्पदं न नेतव्या इति । तथा च स एव । परराजगृहात्प्राप्ताञ्जनान्संग्रहकाम्यया । दुष्टान् वाप्यथवादुष्टान् संश्रयेत प्रयत्नतः ॥ १ ॥ दुष्टं विज्ञाय विश्वासं न कुर्यात् तत्र भूमिपः । वृत्ति तस्यापि वर्तेत जनसंग्रहकाम्यया ॥ २ ॥ राजा देशान्तरात्प्राप्तं पुरुषं पूजयेद्भृशम् । सहायं देश संप्राप्तं बहुमानेन चिन्तयेत् ॥ ३ ॥ यथा कामं तथा राजा नैव कुर्याद् परीक्षकः । नत्वेवासंविभक्तं तु भृत्यं कुर्यात्कदाचन ॥ ४ ॥ असंविभक्तं परस्मात्तापयेनाभिन्नम् । शत्रवोऽग्निर्विषं सर्पा निस्त्रिंशमपि चैकतः । आगताः परतश्चापि कुभृत्याश्च तथैकतः ॥ ५ ॥ तेषां चारेण विज्ञानं राजा विज्ञाय नित्यदा । गुणिनां पूजनं कुर्यान्निर्गुणानां च शासनम् ॥ ६ ॥ इति जनसंग्रहणं नाम कुसुमम् ॥ ॥ समाप्तञ्चायं नीतिकल्पाख्यो ग्रन्थः ॥ For Private and Personal Use Only २६७

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302