Book Title: Niti Kalptaru
Author(s): V P Mahajan
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 268
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः। तत्रादौ धर्माध्यक्षलक्षणम् ।। समः शत्रौ च मित्रे च धर्मशास्त्रविशारदः । विप्रमुख्यः कुलीनश्च धर्माधिकरणो भवेत् ॥ १॥ इति धर्माधिकारिकुसुमम् ॥ [१२३] अथायव्ययाधिकारिलक्षणम् । आयद्वारेषु सर्वेषु धनाध्यक्षसमा नराः । व्ययद्वारेषु सर्वेषु कर्तव्याः पृथिवीक्षिता ॥ १ ॥ इत्यायव्ययाधिकारिलक्षणम् । [ १२४] अथ दुर्गाधिकारिलक्षणम् । अनाहार्यश्च शूरश्च तथा प्राज्ञः कुलोद्गतः । दुर्गाध्यक्षो बलीयांश्च सततं चोद्यतोऽस्त्रवित् ।। इति दुर्गाधिकारिकुसुमम् । [१२५] अथ वस्वध्यक्षलक्षणम् । लोहवस्त्राधन्तरविद्रत्नानां च विभागवित् । विज्ञाता फल्गुसाराणमनाहार्यः शुचित्रतः । निपुणश्चाप्रमत्तश्च धनाध्यक्षः प्रकीर्तितः ॥ १॥ . इति वस्वधिकारिकुसुमम् । [१२६ ] अथ सूदलक्षणम् । सूदशास्त्रविधानज्ञाः पराभेद्याः कुलोद्गताः । सूदा महानसे धार्या नीचश्मश्रुनखा जनाः ॥ १॥ अत्रैव प्रसङ्गाद्भोज्यादिकल्पना । भोज्यं भक्ष्यं तथा लेह्यं चोष्यं पेयं तथैव च । कल्पना पञ्चधा धारै भोज्यस्यैषा प्रकीर्तिता ॥२॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302