________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
तत्रादौ धर्माध्यक्षलक्षणम् ।।
समः शत्रौ च मित्रे च धर्मशास्त्रविशारदः । विप्रमुख्यः कुलीनश्च धर्माधिकरणो भवेत् ॥ १॥ इति धर्माधिकारिकुसुमम् ॥
[१२३] अथायव्ययाधिकारिलक्षणम् । आयद्वारेषु सर्वेषु धनाध्यक्षसमा नराः । व्ययद्वारेषु सर्वेषु कर्तव्याः पृथिवीक्षिता ॥ १ ॥
इत्यायव्ययाधिकारिलक्षणम् ।
[ १२४] अथ दुर्गाधिकारिलक्षणम् ।
अनाहार्यश्च शूरश्च तथा प्राज्ञः कुलोद्गतः । दुर्गाध्यक्षो बलीयांश्च सततं चोद्यतोऽस्त्रवित् ।। इति दुर्गाधिकारिकुसुमम् ।
[१२५] अथ वस्वध्यक्षलक्षणम् ।
लोहवस्त्राधन्तरविद्रत्नानां च विभागवित् । विज्ञाता फल्गुसाराणमनाहार्यः शुचित्रतः । निपुणश्चाप्रमत्तश्च धनाध्यक्षः प्रकीर्तितः ॥ १॥ . इति वस्वधिकारिकुसुमम् ।
[१२६ ] अथ सूदलक्षणम् ।
सूदशास्त्रविधानज्ञाः पराभेद्याः कुलोद्गताः ।
सूदा महानसे धार्या नीचश्मश्रुनखा जनाः ॥ १॥ अत्रैव प्रसङ्गाद्भोज्यादिकल्पना ।
भोज्यं भक्ष्यं तथा लेह्यं चोष्यं पेयं तथैव च । कल्पना पञ्चधा धारै भोज्यस्यैषा प्रकीर्तिता ॥२॥
For Private and Personal Use Only