________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नीतिकल्पतरुः । -
कटुतोयोदककार्थं शोधितानामसंशयम् । पुराणं धान्यजातीनां गन्धमाशु व्यपोहति ॥ ३ ॥ श्रेष्ठ सार्षपकं तैलं शाकानां परिशोधने । मसिं कठिनमायाति कौमल्यं चाईकाम्बुना ॥ ४ ॥ वारणक्षारसंयोगात् मत्स्यस्यास्थि विलीयते । गण्डकाभिः : पलाशस्य क्षीरमावर्तते द्रुतम् ॥ ५ ॥ घृतं सुगन्धी भवति दग्धक्षिप्तैस्तथा यवैः । पद्मचारिण वोगेन' कांचिकस्याम्लिका भवेत् ॥ ६ ॥ गुडाभ्यं शुद्धिमायाति क्षीरेण च तथा द्रुतम् । क्षारयोगेन चाश्वस्य तथाम्लत्वं विनश्यति ॥ ७ ॥ [१०५ ] लवणाधिकविक्षेपसंजातविरसं ध्रुवम् । 'सिकतापिण्डिकाक्षेपैः सुरसत्वमवाप्नुयात् ॥ ८ ॥ तृणकक्षारयोगेन पुष्पाणि च फलानि च । सर्वाणि द्रुतमायान्ति द्रुतानां कल्पनास्वियम् ॥ ९ ॥ नातिदीप्तेन नातीवमन्देनोद र्चिषा बुधः ।
1 Corrupt.
Acharya Shri Kailassagarsuri Gyanmandir
अन्नं धमेन्नातिरसं न वाल्परसं तथा ॥ १० ॥ इत्थं तदध्यक्षलक्षणम् ।
अनाहार्यः शुचिर्दक्षश्चिकित्सकवचोरतः । सूदशास्त्रविधानज्ञः [: सूदाध्यक्षः प्रकीर्तितः ॥ ११ ॥ इति सूदक्रियापौरोगवलक्षणाभिधं कुसुमम् । [ १२७ ] अथाख्राचार्यलक्षणम् ।
अस्त्रमुक्ते, पाणिमुक्ते, अमुक्ते, मुक्तधारिते । अस्त्राचार्यो नियुद्धे च कुशलश्च तथेष्यते ॥ १ ॥ इति अस्त्राचार्य कुसुमम् ।
For Private and Personal Use Only