________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५७
नौतिकल्पतरुः।
[ १२८]
अथ स्थपतिलक्षणम् । वास्तुविद्याविधानज्ञो लघुहस्तो जितक्रमः । दीर्घदर्शी च शूरश्च स्थपतिः परिकीर्तितः ॥ १ ॥
इति स्थपतिलक्षणम् ।
[१२९]
अथ लेखकलक्षणम् । सर्वदेशाक्षराभिज्ञाः सर्वशास्त्रविशारदाः । लेखकाः कथिता धीरैः सर्वाधिकरणे बुधैः ॥ १॥ शीर्षोपेतान्सुसंपूर्णान् समश्रेणिगतान्समान् । अक्षरान्विलिखेद्यस्तु लेखकः स वरः स्मृतः ॥ २॥ सोपायवाक्यकुशलः सर्वलेख्यविशारदः । बहुर्थवक्ता चाल्पेन लेखकोऽयं सुदुर्लभः ॥ ३ ॥
इति लेखककुसुमम् ।
[ १३०] अथ सम्यलक्षणम् ।
शत्रुमित्रसमा ये स्युर्धर्मन्यायविचक्षणाः । श्रेणिमुख्या कुलीनाश्च द्विजमुख्याः सभासदः ॥ १ ॥ सकृयेन कृतं पापं तस्य राजा न विश्वसेत् । पापं तत्सुकरं तस्य सकृयेन कृतं भवेत् ॥ २॥ यथा हि मलिनैर्वस्त्रैर्यत्र तत्रोपविश्यते । तथा चलितवृत्तस्य वृत्तशेषं न रक्षति ॥ ३ ॥ तन संवेशयेत्कार्ये जनो यो नास्तिको भवेत् । आस्तिका अपि तत्सङ्गात्प्राप्नुयुः संशयं यतः॥४॥
For Private and Personal Use Only