________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पई
नीतिकल्पतरुः। अत्रैव प्रसङ्गात् गजारोहिलक्षणम् ।
एतैरेव गुणैर्युक्तः स्वाधीनश्च विशेषतः । काले मन्त्रविधानज्ञः शस्त्रास्त्रक्षपणक्षमः ॥ २ ॥ शूरश्च बलवांश्चैव कोपादीहाविचक्षणः। गजारोहो नरेन्द्रस्य सर्वकर्मसु शस्यते ।। ३ ॥ इति । इति करिपालकथनाभिधं कुसुमम् ।
[१२०] अथाश्वपाललक्षणम्--
हयशिक्षाविधानज्ञोऽश्वचिकित्सितपारगः । अश्वाध्यक्षो महीभर्तुः स्वासनश्च प्रशस्यते ॥ १ ॥ स्वासनः स्थिरकटिः । इति अश्वपालकथनाख्यं कुसुमम् ।
[१२१] अथ सारथिलक्षणम् ।
शूरश्च बहुयुक्तश्च गजाश्वरथकोविदः । . केशधारी भवेद्राज्ञः सदा क्लेशसहश्च यः ॥ १ ॥ निमित्तशकुनज्ञानहयशिक्षाविशारदः । हयायुर्वेदतत्त्वज्ञो भूमिभागविशेषवित् ॥ २॥ बलाबलज्ञो रथिनः स्थिरदृष्टिर्विशारदः। शूरश्च कृतविद्यश्च सारथिः परिकीर्तितः ॥ ३ ॥
इति सारथिकुसुमम् ॥
[१२२] धर्मायव्ययदुर्गवस्वधिकृत इति द्वन्द्वान्तस्थितस्याधि[१०५]कृतशब्दस्य धर्मादिचतुर्भिः संबन्ध इति धर्माध्यक्षः, आयव्ययाध्यक्षः, दुर्गाध्यक्षो, वस्वध्यक्ष इति सिद्धम् ।
For Private and Personal Use Only