Book Title: Niti Kalptaru
Author(s): V P Mahajan
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 269
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नीतिकल्पतरुः । - कटुतोयोदककार्थं शोधितानामसंशयम् । पुराणं धान्यजातीनां गन्धमाशु व्यपोहति ॥ ३ ॥ श्रेष्ठ सार्षपकं तैलं शाकानां परिशोधने । मसिं कठिनमायाति कौमल्यं चाईकाम्बुना ॥ ४ ॥ वारणक्षारसंयोगात् मत्स्यस्यास्थि विलीयते । गण्डकाभिः : पलाशस्य क्षीरमावर्तते द्रुतम् ॥ ५ ॥ घृतं सुगन्धी भवति दग्धक्षिप्तैस्तथा यवैः । पद्मचारिण वोगेन' कांचिकस्याम्लिका भवेत् ॥ ६ ॥ गुडाभ्यं शुद्धिमायाति क्षीरेण च तथा द्रुतम् । क्षारयोगेन चाश्वस्य तथाम्लत्वं विनश्यति ॥ ७ ॥ [१०५ ] लवणाधिकविक्षेपसंजातविरसं ध्रुवम् । 'सिकतापिण्डिकाक्षेपैः सुरसत्वमवाप्नुयात् ॥ ८ ॥ तृणकक्षारयोगेन पुष्पाणि च फलानि च । सर्वाणि द्रुतमायान्ति द्रुतानां कल्पनास्वियम् ॥ ९ ॥ नातिदीप्तेन नातीवमन्देनोद र्चिषा बुधः । 1 Corrupt. Acharya Shri Kailassagarsuri Gyanmandir अन्नं धमेन्नातिरसं न वाल्परसं तथा ॥ १० ॥ इत्थं तदध्यक्षलक्षणम् । अनाहार्यः शुचिर्दक्षश्चिकित्सकवचोरतः । सूदशास्त्रविधानज्ञः [: सूदाध्यक्षः प्रकीर्तितः ॥ ११ ॥ इति सूदक्रियापौरोगवलक्षणाभिधं कुसुमम् । [ १२७ ] अथाख्राचार्यलक्षणम् । अस्त्रमुक्ते, पाणिमुक्ते, अमुक्ते, मुक्तधारिते । अस्त्राचार्यो नियुद्धे च कुशलश्च तथेष्यते ॥ १ ॥ इति अस्त्राचार्य कुसुमम् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302