Book Title: Niti Kalptaru
Author(s): V P Mahajan
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नीतिकल्पतरुः ।
वितताक्षिणः विस्तृतव्यवहाराः ।
स्वदेशे परदेशे च जातशीलान्विचक्षणान् । अनाहार्यान् क्लेशसहान्नियुञ्जीत सदाधरान् ॥ २ ॥ जनस्याविदितान्सौम्यानविज्ञातान्परस्परम् । वणिजो मन्त्रकुशलान्सांवत्सरपुरोहितान् ॥ ३ ॥ तथा प्रव्राजकाकारांश्वरान् राजा नियोजयेत् । नैकस्य राजा सन्दध्याच्चरस्यापि च भाषणे ॥ ४ ॥ द्वयोः संवादमाज्ञाय सन्दध्यान्नृपतिस्ततः । परस्पर[१०४ब]स्याविदितौ यदि स्यातां ततावुभौ ॥ ५ ॥ तस्माद्राजा प्रयत्नेन गूढांश्चाश्चि योजयेत् । राज्यस्य मूलमेतावद्यन्नृपाश्चारदृष्टयः || ६ || चाराणामपि यत्नेन राज्ञा कार्य परीक्षणम् । रागोपरागौ भृत्यानां जनस्य च गुणागुणान् ॥ ७ ॥ शुभानामशुभानां च विज्ञानं चैव कर्मणाम् । राज्ञां सर्व चरायतं तेषु यत्नः सदा भवेत् ॥ ८ ॥ कर्मणा केन मे लोके जनः सर्वोऽनुरज्यते । विरज्यते तथा केन ज्ञेयमेतन्महीक्षिता ॥ ९ ॥ इति चरकथनाभिधं कुसुमम् ।
[ ११८ ]
अथ पुररक्षकलक्षणम् ।
आयव्ययज्ञो लोकाना देशोत्पत्तिविशारदः । कृताकृतज्ञो भृत्यानां कार्योऽयमक्षरक्षिता ॥ अक्षं व्यवहारः देशव्यवहाररक्षक इत्यर्थः ।
इति पुररक्षककथनाभिषं कुसुमम् ॥ ११८ ॥ [१९१९]
अथ हस्तिरक्षकलक्षणम् ।
Acharya Shri Kailassagarsuri Gyanmandir
हस्तिशिक्षाविधानज्ञो वन्यजातिविशारदः । शमस्तथा राज्ञो गजाध्यक्षः प्रकीर्तितः ॥ १ ॥
For Private and Personal Use Only
२५३

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302