Book Title: Niti Kalptaru
Author(s): V P Mahajan
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मीतिकल्पतरुः।
अथ पादाङ्गुलिलक्षणम्---
अगुष्ठौ विपुलौ येषां ते नरा दुःखभागिनः । क्लिश्यन्ते विकृतागुष्ठा नराश्च पथिगामिनः ॥ १६७ ॥ उन्नतैश्च समस्निग्धैरसितैः सुखभागिनः । वृत्तै रक्तैस्तथा जाता नखैर्य स्युनराधिपाः ।। १६८ ॥ यस्य प्रदेशिनी दीर्घा ह्यङ्गुष्ठं च व्यतिक्रमेत् ।। स्त्रीभोग लभते नित्यं पुरुषो नात्र संशयः ॥ १६९ ।। मध्यमायां तु दीर्घायां दीर्घा हानि विनिर्दिशेत् । अनामिकायां दीर्घायां विद्याभोगी भवेन्नरः ॥ १७० ॥ सा च ह्रस्वा भवेद्यस्य स स्यात्पारदारिकः । कनिष्ठायां च दीर्घायां सुवर्णस्य च भागिनः ॥१७१ ॥ यस्य प्रदेशिनी स्थूला भीतिस्तस्य कनिष्ठिका । इस्वा क्लेशाय भोगायाङ्गुष्ठ दीर्घा प्रदेशिनी ॥ १७२ ।। [९५]यस्य पादतले रेखाङ्कुशश्चापि विराजते । सेनानां नायकं विद्याद्गजानामधिपं तथा ॥ १७३ ॥ कुटिलाश्च तथा शून्या यस्याङ्गुल्यो भवन्ति हि । तं सर्वदुःखितं नित्यं धनहीनं विनिर्दिशेत् ॥ १७४ ॥ असंहताभिर्हस्वाभिरङ्गुलीभिश्च मानवाः । दासा वा दासकर्माणः समुद्रवचनं यथा ॥ १७५ ॥ अगुल्योऽपि समा दीर्घाः संहताश्च समुन्नताः। येषां प्रदक्षिणावर्ताः पार्थिवास्ते न संशयः ।। १७६ ॥ जानुनी मांसले स्निग्धे ऊरू विस्तीर्णवर्तुलौ । इष्टिकामा कटी शस्ता मध्यं तु कुलिशोपमम् ॥१७७ ॥ इति दिमात्रमेतस्य कीर्तितं शास्त्रतो मया । महामतिविनोदाय प्रसङ्गे शोभतेऽखिलम् ।। १७८ ।। संक्रामितमिदं सर्वं यतैरुक्तं महात्मभिः । आक्षेपमानमप्येते बिन्दुच्युत्या न मे भरः ॥ १७९ ।।
For Private and Personal Use Only

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302