Book Title: Niti Kalptaru
Author(s): V P Mahajan
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 258
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतकः। सीमन्ते च ललाटे च त्याज्यो दूरात्प्रयत्नतः। सा पति हन्ति वर्षेण यस्या मध्ये कृकाटिकम् । प्रदक्षिणो वा वामो वा रोम्णामावर्तकः स्त्रियः ॥१४१॥ एको वा मूर्धनि द्वौ वा वामे वामगती यदि । आदशाहं पतिघ्नौ तौ त्याज्यौ दूरात्सुबुद्धिना ॥ १४२ ॥ कट्यावर्ता च कुटिला नाभ्यावर्ता पतिव्रता । पृष्ठावर्ता च भर्तृघ्नी कुलटा वाथ जायते ॥ १४३ ।। इति समुद्रः ललाटे दृश्यते यस्याः कृष्णं तिलकमुसमम् । पश्च सा जनयेत्पुत्रान् धनधान्यसमाकुला ॥ १४४ ॥ यस्यास्तु हसमानाया ललाटे स्वस्तिको भवेत् । वाहनानां सहस्रस्य साधिपत्यं ध्रुवं लभेत् ॥ १४५॥ अथ संक्षेपेण सुलक्षणषोडशकम्-- - पीनोरुः पीनगण्डा, समसितदशना, पनपत्रायताक्षी । बिम्बोष्ठी, तुङ्गनासा, गजपतिगमना, दक्षिणावर्तनाभिः ॥ स्निग्धाङ्गी, चारवेशा, मृदुपृथुजघना, सुस्वरा, चारुकेशा, । भर्ता तस्याः क्षितीशो भवति च सुभगा पुत्रयुक्ता च नारी॥१४६॥ ऊरू शुभौ करिकरप्रतिमावरोमावश्वत्थ यत्र सदृशं विपुलं च गुह्यम् । श्रोणी ललाटमुरुकूर्मसमुन्नतं च गूढो मणिश्च विपुलां श्रियमातनोति ॥१४७॥ अथ कुलक्षणषोडशकम्पिङ्गाक्षी, गण्डकूपा, खरपरुपरवा, स्थूलजकोर्ध्वकेशी, रूक्षाक्षी, वक्रनासा प्रविरलदशना कृष्णताल्वोष्ठजिह्वा । शुष्काङ्गी संहतभ्रूः कुचयुगविषमा वामना वातिदीर्घा कन्यैषा वर्जनीया धनसुखरहिता दुष्टशीला च नित्यम् ॥१४८॥इति अथ नारीरञ्जनविधाः बाल्ये खेलनकैः काले दत्तापूर्वफलाशनैः । मोदते यौवनस्था तु वस्त्रालंकरणादिभिः ॥ १४९॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302