Book Title: Niti Kalptaru
Author(s): V P Mahajan
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 263
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५० नीतिकल्पतरुः। आयत्या प्रतिकारशस्तदात्वे दृढनिश्चयः । अतीते कार्यशेषज्ञो नरो हन्त न हीयते ॥ १६ ॥ आयत्या कालान्तरसंभावितापदि, तदात्वे प्राप्तायां सत्यां तस्यां धैर्यण सहनम् । अतीतायां शेषसंभावनेन प्रतीकारज्ञः । प्रियो भवति दानेन प्रियो वादेन चापरः । मन्त्रमूलबलेनान्यो यः प्रियः प्रिय एव सः ।। १७ ॥ अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् । लभते बुद्धयवज्ञानमवमानं च भारत ॥ १८ ।। द्वेष्यो न साधुर्भवति न मेधावी न पण्डितः । प्रियो शुभानि कर्माणि द्वेष्योपायानि भारत ॥ १९॥ प्रियोऽपि सन्नशुभानि कर्माणि चेत्करोति तदा द्वेष्यो भवति । द्वेष्योऽपि सन्नपापानि चेत् कुरुते प्रियो भवतीति भावः । न स क्षयो महाराज यं लब्ध्वा वृद्धिमावहेत् । क्षयस्त्विह स मन्तव्यो यं लब्ध्वा बहु नाशयेत् ॥ २०॥ तस्मारक्षयं दृष्ट्वा न मित्रमवमानयेत् । अल्पवृद्धिं वा दृष्ट्वा[१०३ब] सहायेन कथंचित् नाशितेऽपि द्रव्यादौ पाकं पर्यालोच्य प्रतीक्षयेदिति । समृद्धया गुणतः कोचद्भवन्ति धनतो परे । धनवृद्धान्गुणैहीनान्दूरतः परिवर्जयेत् ॥ २१ ॥ सदोषं दर्शनं येषां संवासात्सुमहद्भयम् । अर्थादाने महान्दोषः प्रदाने सुमहद्रयम् ॥ २२ ॥ ये पापा इति विख्याताः संवासैः परिगर्हिताः । युक्ताश्चान्यैर्महादोषैर्ये नरास्तान्विवर्जयेत् ॥ २३ ॥ न तन्मित्रं यस्य कोपाद्विभेति यद्वा मित्रं शङ्कते नोपर्य । यस्मिन्मित्रे पितरीवाश्वसेत तद्वै मित्रं सङ्गतानीतराणि ॥२४ । यस्य चेतसि संबन्धो मित्रभावेन वर्तते । स एव बन्धुस्तन्मित्रं स गतिस्तत्परायणम् ॥ २५ ॥ अल्पचित्तस्य वै पुंसो वृद्धाननुपसेविनः । परिप्लवमतेनित्यमध्रुवो मित्रसंग्रहः ॥ २६ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302