SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मीतिकल्पतरुः। अथ पादाङ्गुलिलक्षणम्--- अगुष्ठौ विपुलौ येषां ते नरा दुःखभागिनः । क्लिश्यन्ते विकृतागुष्ठा नराश्च पथिगामिनः ॥ १६७ ॥ उन्नतैश्च समस्निग्धैरसितैः सुखभागिनः । वृत्तै रक्तैस्तथा जाता नखैर्य स्युनराधिपाः ।। १६८ ॥ यस्य प्रदेशिनी दीर्घा ह्यङ्गुष्ठं च व्यतिक्रमेत् ।। स्त्रीभोग लभते नित्यं पुरुषो नात्र संशयः ॥ १६९ ।। मध्यमायां तु दीर्घायां दीर्घा हानि विनिर्दिशेत् । अनामिकायां दीर्घायां विद्याभोगी भवेन्नरः ॥ १७० ॥ सा च ह्रस्वा भवेद्यस्य स स्यात्पारदारिकः । कनिष्ठायां च दीर्घायां सुवर्णस्य च भागिनः ॥१७१ ॥ यस्य प्रदेशिनी स्थूला भीतिस्तस्य कनिष्ठिका । इस्वा क्लेशाय भोगायाङ्गुष्ठ दीर्घा प्रदेशिनी ॥ १७२ ।। [९५]यस्य पादतले रेखाङ्कुशश्चापि विराजते । सेनानां नायकं विद्याद्गजानामधिपं तथा ॥ १७३ ॥ कुटिलाश्च तथा शून्या यस्याङ्गुल्यो भवन्ति हि । तं सर्वदुःखितं नित्यं धनहीनं विनिर्दिशेत् ॥ १७४ ॥ असंहताभिर्हस्वाभिरङ्गुलीभिश्च मानवाः । दासा वा दासकर्माणः समुद्रवचनं यथा ॥ १७५ ॥ अगुल्योऽपि समा दीर्घाः संहताश्च समुन्नताः। येषां प्रदक्षिणावर्ताः पार्थिवास्ते न संशयः ।। १७६ ॥ जानुनी मांसले स्निग्धे ऊरू विस्तीर्णवर्तुलौ । इष्टिकामा कटी शस्ता मध्यं तु कुलिशोपमम् ॥१७७ ॥ इति दिमात्रमेतस्य कीर्तितं शास्त्रतो मया । महामतिविनोदाय प्रसङ्गे शोभतेऽखिलम् ।। १७८ ।। संक्रामितमिदं सर्वं यतैरुक्तं महात्मभिः । आक्षेपमानमप्येते बिन्दुच्युत्या न मे भरः ॥ १७९ ।। For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy