________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१२
नीतिकल्पतरुः। आक्षेपेति । अयं भावः
अत्र वैद्यसूक्ष्मनये सूक्ष्ममेव किञ्चिदवश्यं वर्णनीयमासीत् । तत्वत्र न लभ्यते इति यदभियुक्ता आक्षिपन्ति । बिन्दुच्युतेति । बिन्दुच्युतिन्यायेन यथा बिन्दुः च्युतः स्थितश्चान्तरप्रतीतिं करोति तथात्रापि काचित्कणिका चेत् च्युता मषकतिलकादिलक्षणा सर्वमेतत् शिथिलयति । तथा चोक्तनयने सुलक्षणे कुलक्षणे वा पुरुषे प्रत्यभिज्ञाने तत्रैव स्थानान्तरस्थितसूचकबिन्दुसदृश तिलमात्रेणापि चान्तरं९ि५ब]महदापतति ।
___ सुलक्षणे कुलक्षणं कुलक्षणे सुलक्षणमिति तदपि कथनीयमासीत् । यन्न कथितं तदाक्षेपमानं त एवेति भावः । निदर्शितं च प्राच्यैरपि बिन्दुच्युतिस्थितिभ्यामर्थान्तरप्रतीतिर्यथा--
'काले जलधरजाले सहकारमनोहरे । __ कान्तः सर्वगुणोपेतो बाले दुःखेन लभ्यते ॥ १८० ॥ इति
अत्रार्थ:-हे बाले जलधरजाले काले वर्षाकाले सहकारकुसुममनोहरे कान्तः सर्वगुणोपेतः स दुःखेन लभ्यते । स तावद्गुरुजनाज्ञया धर्मपतिदूरे लमः। अधुना च समयोगक्षेमया भवस्या यदि मदर्थ प्रयस्यते तथापि कान्तः कमनीयः सर्वगुणोपेतश्च कथं लभ्यते । कुलसरणिं व्यतीत्य भवदनुरोधेन यद्यपि क्रियते तथापि तादृशकान्ताभावाद्धर्महानिः । कुलाङ्गनास्वानुतापश्च शिष्यत इति प्रबोधनायागता सखी प्रति बालायां लिखन्त्यां तदाश्वासनार्थ, तत्र श्वशुरे समायाते तत्रासौ शीर्ण बिन्दु पातयामास । बालेन्दुः खे न लभ्यते इति बिन्दौ च पातिते गुरुदर्शनोचितोऽसौ श्लोको जातः । ___ तथा च एतादृशकाले मेघाच्छादितत्वात् आकाशे बालेन्दुः कोमल. चन्द्रो न लभ्यते । इति (९६अ) अथ स्त्रीलक्षणशाखा । तत्राध्यादौ सामान्यलक्षणमुभयानुगतं यथा।
आवर्ता दक्षिणे पुंसां स्त्रीणां वामे शुभप्रदाः ।
स्पन्दनं स्फुरणं लक्ष्म तिलको मषको ब्रणः ॥ १॥ अत्र वराहाचार्यों विशेषमाह
उत्पातगण्डपिटका दक्षिणतो वामतस्त्वभिघाताः । धन्या भवन्ति पुंसां तद्विपरीताश्च नारीणाम् ॥ २ ॥
For Private and Personal Use Only