SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३० नीतिकल्पतरुः । अथ स्त्रीणां विशेषलक्षणानि पादौ समाङ्गुली स्निग्धौ भूम्यां यदि प्रतिष्ठतः । यस्याः सकोमलौ रक्तौ सा कन्या गृहमण्डिनी ॥ ३ ॥ प्रतिष्ठतः इति समुद्रया भूमिं स्पृशतः । तथा च समुद्र:समन्तात्भूमिसंलग्नं यस्याश्चरणयोस्तलम् । अष्टौ पुत्रान्प्रसूते सा पत्युः संतानवर्धिनी ॥ ४ ॥ इति चक्रस्वस्तिकशङ्खाब्जध्वज मी नातपत्रवत् । यस्याः पादतले रेखा सा भवेत् क्षितिपाङ्गना ॥ ५ ॥ भवेदखण्डभोगायोर्ध्वा मध्याङ्गुलिसंगता । रेखाखुसर्पकाकाभा दुःखदारिद्यसूचिका ।। ६ ।। यस्याः पादतले रेखा तर्जनी याति चोर्ध्वगा । • भर्तारं लभते शीघ्रं प्रिया भर्तुश्च जायते ॥ ७ ॥ पादे प्रदेशिनी यस्या अङ्गुष्ठामं व्यतिक्रमेत् । न सा भर्तृगृहे तिष्ठेत्स्वच्छन्दा कामचारिणी ॥ ८ ॥ पादे मध्यमिका यस्या अङ्गुष्ठं च व्यतिक्रमेत् । कुशीला दुर्भगा चैव तस्मात्तां परिवर्जयेत् ॥ ९ ॥ यस्यास्त्वनामिका स्वा तां विदुः कलहप्रियाम् । भूमिं न स्पृशते यस्याः खादते सा पतिद्वयम् ॥ १० ॥ पादे कानेष्ठिका यस्या भूमिं न स्पृशते यदि । भतीरं प्रथमं हत्वा द्वितीये सुप्रतिष्ठिता ।। ११ ॥ अनामिका च मध्या च यस्या भूमिं न च स्पृशेत् । पतिद्वयं निहन्त्याद्या द्वितीया च पतित्रयम् ॥ १२ ॥ [९६ब] पतिहीनत्व कारिण्यो हीने ते द्वे यदा च वै । उन्नतो मांसलोऽङ्गुष्ठो वर्तुलोऽतुलमोगदः ॥ १३ ॥ वको हूस्वश्च चिपिटः सुखसौभाग्यभञ्जकः । विधवा विपुलेन स्याद्दीर्घाङ्गुष्ठेन दुर्भगा ॥ १४ ॥ दीर्घाङ्गुलीभिः कुलजा कृशाभिरतिनिर्धना । हुस्वायुष्या च हूस्वाभिर्भुग्नाभिर्भुग्नवर्तिनी ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Voodo २३३
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy