Book Title: Nayamrutam
Author(s): Vairagyarativijay
Publisher: Bherulalji Kanaiyalalji Kothari Religious Trust

View full book text
Previous | Next

Page 33
________________ भावमात्राभिधानप्रयोजकोऽध्यवसायविशेष इति एतदर्थः । तेन न अति प्रसङ्गादिदोषोपनिपातः (भावः = भावनिक्षेपः) तत्रापि 'नामादिषु प्रसिद्धपूर्वात् शब्दात् अर्थप्रत्ययः साम्प्रतः' इति साम्प्रतलक्षणम् । प्रतिविशिष्टवर्तमानपर्यायापन्नेषु नामादिष्वपि गृहीतसङ्केतस्य शब्दस्य भावमात्रबोधकत्वपर्यवसायीति तदर्थः । तथात्वं च भावातिरिक्तविष्यांश उक्तसङ्केतस्याप्रामाण्यग्राहकतया निर्वहति । तज्जातीयाध्यवसायत्वं च लक्षण मिति न क्वचिदनीदृशस्थलेऽव्याप्तिः । समभिरुढाद्यतिव्याप्तिश्च अध्यवसायें विषये. वा तत्तदन्यत्वदानान्निराकरणीया ।। सम्प्रदायेऽपि ‘विशेषिततरः ऋजुसूत्राभिमतार्थग्राही अध्यवसायविशेषः शब्दः इत्यापादितसंज्ञान्तरस्यास्य लक्षणम् । 'इच्छइ विसेसियतरं पझुप्पण्णं णओ संद्दो' इति सूत्रम् (अनु. १५२) अत्रापि 'तर' प्रत्ययमहिम्ना विशेषिततमाधोवर्तिविषयाग्रहणान्न समभिरूढाद्यतिव्याप्तिरिति स्मर्तव्यम् । ऋजुसूत्राद् विशेषः पुनरस्येत्थं भावनीयः- यदुत संस्थानादिविशेषात्मा भावघट एव परमार्थसत् तदितरेषां तत्तुल्यपरिणत्यभावेनाघटत्वात् । अथवा लिङ्ग-वचन-सङ्ख्यादिभेदेनार्थभेदाभ्युपगमाद् ऋजुसूत्रादस्य विशेषः ।। अस्य च उपदर्शिततत्त्वो भावनिक्षेप एवाभिमतः ।। समभिरूढनयनिरूपणम् १८ असङ्क्रमगवेषणपरोऽध्यवसायविशेषः समभिरूढः । "वत्थुओ संकमणं होइ अवत्थु गए समभिरूढे" इति सूत्रम् । “सत्स्वर्थेष्वसङ्क्रमः समभिरूढः इति” तत्त्वार्थभाष्यम् । नयामृतम्

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164