Book Title: Nayamrutam
Author(s): Vairagyarativijay
Publisher: Bherulalji Kanaiyalalji Kothari Religious Trust

View full book text
Previous | Next

Page 51
________________ एकस्य देशस्य सत्त्वेनापरस्य च युगपदुभयथादेशे द्वितीयो विकलादेशः । देशेऽसत्वस्य देशे च युगपदुभययोविवक्षणे षष्ठः । . देशेऽस्तित्वस्य, देशे नास्तित्वस्य, देशे च युगपदुभययोविविक्षायां सप्तमः ।। एते च परस्पररूपापेक्षया सप्तभङ्ग्यात्मकाः प्रत्येकं स्वार्थं प्रतिपाद यन्ति नान्यथेति प्रत्येकं तत्समुदायो वा सप्तभङ्गयात्मकः प्रतिपाद्यमपि तथाभूतं दर्शयतीति सम्प्रदायविदो वदन्ति । ___ तत्र जिज्ञासितसप्तधर्मात्मकप्रतिपादकत्वपर्याप्त्यधिकरणमहावाक्यत्वरूपसप्तभङ्गीत्वं समुदाय एव, निरुक्तप्रतिपादकत्वाधिकरणवाक्यत्वरूपं च तत् प्रत्येकमपीति विवेकः । अत एव ‘स्यात्'पदलाञ्छनविवक्षितधर्मावधारकत्वेन स्वार्थमात्रप्रतिपादन प्रवणत्वेन च द्विधा सुनयत्वमुदाहरन्ति । आद्यं सप्तभङ्गयात्मकमहावाक्यैकवाक्य तापनवाक्ये, अन्त्यं चोदासीने धर्मान्तरोपादानप्रतिषेधाकारिणि । इत्थं च ‘स्यादस्ति' इत्यादि प्रमाणं, 'अस्त्येव' इत्यादि दुर्नयः, 'अस्ति' इत्यादिकः सुनयः न तु स व्यवहाराङ्गं । 'स्यादस्ति एव' इत्यादिस्तु दुर्नय एव व्यवहारकारणं स्वपरानुवृत्तव्यावृत्तवस्तुविषयप्रवर्तकवाक्यस्य व्यवहारप्रवर्तकत्वादिति ग्रन्थकृतो विवेचयन्ति । अथानन्तधर्मात्मके वस्तुनि तत्प्रतिपादकवचनस्य सप्तधा कल्पनेऽष्टमनवम विकल्पयोः कल्पनमपि किं न क्रियत इति चेन्न तत्परिकल्पननिमित्ताभावात् । इत्ययमुक्तन्यायेन वस्तुप्रतिपादने सप्तविध एव वचनमार्ग इति स्थितम् । सप्तभङ्ग्यां नयावतार : अत्रैवं नयविभागमुपदर्शयन्ति श्रीसिद्धसेनदिवाकरपादाः- . एवं सत्तवियप्पो वयणपहो होई अत्थपज्जाए । वंजणपज्जाए पुण सवियप्पो निम्वियप्पो य ।। सन्म. १-४१ ।। नियामृतम् ಇವರ ಪಪಪಪಪಪಪ ಪಪಪಪಪಪ ಪಪಪ

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164