Book Title: Nayamrutam
Author(s): Vairagyarativijay
Publisher: Bherulalji Kanaiyalalji Kothari Religious Trust

View full book text
Previous | Next

Page 103
________________ व्याख्या-'जिनराजशासने' 'सतां'-जिनाज्ञावतां 'प्रमाणवाक्यं' 'किं' 'चमत्कारकर' 'न' 'भवेत्' ? अपि तु भवत्येव, इत्यर्थः । ननु कीदृशं प्रमाणवाक्यं भवति ? इति जिज्ञासायामाह-'स्यादेवयुक्तं' । स्यादित्यव्ययपदम्, समयसङ्केतात्कथंचित्त्ववाचकम्; तेन, प्रायोऽन्ययोगव्यवच्छेदपरेण एवकारणे च युक्तम्कलितम्; यथा-'स्यादस्त्येव घटः' इति । प्रमाणत्वं चास्य 'स्यादेव' पदलाञ्छितत्वात् । तत्र कथञ्चित्प्रकारेण स्वरूपादिना, न तु पररूपादिना घटेऽस्तित्वं स्यात्पदेन प्रतिपाद्यते । एवपदेन चास्तित्वविरुद्धनास्तित्वादीनां व्यवच्छेदः प्रतिपाद्यते । ननु जैनमते विरुद्धधर्माध्यासाङ्गीकारात् कालावच्छेदेन देशावच्छेदेन च यदा यत्रास्तित्वं प्रतिपाद्यते, तदा तत्र नास्तित्वमपि प्रतिपाद्यम्, तत्कथम् ‘स्यादस्त्येव घटः' इत्यत्र एवकारेण नास्तित्वव्यवच्छेदः क्रियते ? इति चेत् सत्यम्, यद्यप्येकस्मिन्नेव कालेऽप्येकस्मिन्नेव देशेऽस्तित्वं नास्तित्वं च वक्तव्यमेव, तथापि स्वरूपभेदस्तु सर्वथैव तत्र निगद्यः । नहि. येनैव स्वरूपेण तत्रास्तित्वं प्रतिपाद्यते, तेनैव स्वरूपेण नास्तित्वमपि प्रतिपादयितुं शक्यम् । - ... ननु अस्तित्वनास्तित्वयोः कः स्वरूपभेदः ? इति चेत् शृणु, अस्तित्वं तावत्स्वस्वरूपेण, नास्तित्वं च परस्वरूपेण । पृथुबुध्नोदराद्याकारजलाहरणादिक्रियाकर्तृत्वादिना स्वस्वरूपेण चास्त्येव घटः; तन्तुजन्यत्वशीतत्राणादिक्रियाकर्तृत्वादिना परस्वरूपेण च नास्त्येव घटः; इति सिद्धं स्यादस्त्येव घटः; इति । अत्र एवकारेण अस्तित्वविरुद्धनास्तित्वादीनां व्यवच्छेदो भवति, इति सुष्ठुक्तम्'स्यादेवयुक्तं' 'प्रमाणवाक्यम्' इति । 'अस्त्येव घटः' इति प्रमाणवाक्यमस्तु, स्यादित्यधिकम्; इति चेत् न, दुर्नयवाक्येऽतिप्रसक्तेः । ननु दुर्नयवाक्यं कीदृशम् ? इति चेत् शृणु, 'अस्त्येव घटः' इति तावदुर्नयवाक्यम् । अत्र हि केवलेनैवकारेणास्तित्वव्यतिरिक्तास्तत्समानाधिकरणा अप्यनन्ता धर्मा व्यवच्छिद्यन्ते । अत एवास्य मिथ्यात्वम्, अस्तित्वसमानाधिकरणाCOkkuktakkakakakakakakakakakakनयामृतम् ) -

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164