________________
व्याख्या-'जिनराजशासने' 'सतां'-जिनाज्ञावतां 'प्रमाणवाक्यं' 'किं' 'चमत्कारकर' 'न' 'भवेत्' ? अपि तु भवत्येव, इत्यर्थः । ननु कीदृशं प्रमाणवाक्यं भवति ? इति जिज्ञासायामाह-'स्यादेवयुक्तं' । स्यादित्यव्ययपदम्, समयसङ्केतात्कथंचित्त्ववाचकम्; तेन, प्रायोऽन्ययोगव्यवच्छेदपरेण एवकारणे च युक्तम्कलितम्; यथा-'स्यादस्त्येव घटः' इति । प्रमाणत्वं चास्य 'स्यादेव' पदलाञ्छितत्वात् । तत्र कथञ्चित्प्रकारेण स्वरूपादिना, न तु पररूपादिना घटेऽस्तित्वं स्यात्पदेन प्रतिपाद्यते । एवपदेन चास्तित्वविरुद्धनास्तित्वादीनां व्यवच्छेदः प्रतिपाद्यते ।
ननु जैनमते विरुद्धधर्माध्यासाङ्गीकारात् कालावच्छेदेन देशावच्छेदेन च यदा यत्रास्तित्वं प्रतिपाद्यते, तदा तत्र नास्तित्वमपि प्रतिपाद्यम्, तत्कथम् ‘स्यादस्त्येव घटः' इत्यत्र एवकारेण नास्तित्वव्यवच्छेदः क्रियते ? इति चेत् सत्यम्, यद्यप्येकस्मिन्नेव कालेऽप्येकस्मिन्नेव देशेऽस्तित्वं नास्तित्वं च वक्तव्यमेव, तथापि स्वरूपभेदस्तु सर्वथैव तत्र निगद्यः । नहि. येनैव स्वरूपेण तत्रास्तित्वं प्रतिपाद्यते, तेनैव स्वरूपेण नास्तित्वमपि प्रतिपादयितुं शक्यम् । - ... ननु अस्तित्वनास्तित्वयोः कः स्वरूपभेदः ? इति चेत् शृणु, अस्तित्वं तावत्स्वस्वरूपेण, नास्तित्वं च परस्वरूपेण । पृथुबुध्नोदराद्याकारजलाहरणादिक्रियाकर्तृत्वादिना स्वस्वरूपेण चास्त्येव घटः; तन्तुजन्यत्वशीतत्राणादिक्रियाकर्तृत्वादिना परस्वरूपेण च नास्त्येव घटः; इति सिद्धं स्यादस्त्येव घटः; इति । अत्र एवकारेण अस्तित्वविरुद्धनास्तित्वादीनां व्यवच्छेदो भवति, इति सुष्ठुक्तम्'स्यादेवयुक्तं' 'प्रमाणवाक्यम्' इति ।
'अस्त्येव घटः' इति प्रमाणवाक्यमस्तु, स्यादित्यधिकम्; इति चेत् न, दुर्नयवाक्येऽतिप्रसक्तेः ।
ननु दुर्नयवाक्यं कीदृशम् ? इति चेत् शृणु, 'अस्त्येव घटः' इति तावदुर्नयवाक्यम् । अत्र हि केवलेनैवकारेणास्तित्वव्यतिरिक्तास्तत्समानाधिकरणा अप्यनन्ता धर्मा व्यवच्छिद्यन्ते । अत एवास्य मिथ्यात्वम्, अस्तित्वसमानाधिकरणाCOkkuktakkakakakakakakakakakakनयामृतम् )
-