________________
नामप्यनन्तानां धर्माणामपलापात् । अत एव सूत्रेऽपि प्रमाणवाक्यविशेषणं 'दुर्नयवाक्यदूरितम्' इति । तल्लक्षणस्पर्शमात्राभावदुर्नयवाक्यं दूरीतं-दूरीकृतं “येन, तत्तथा, इति । __ अथ 'स्याद् घटोऽस्ति' इत्येवास्तु, ‘एव' इति पदमधिकम्, इति चेत् न, एवं हि नयवाक्येऽतिप्रसक्तेः ।।
ननु नयवाक्यं कीदृशम् ? इति चेत्; शृणु, स्यादस्ति घटः' इति तावन्नयवाक्यम् । अत्र हि स्यात्पदलाञ्छितत्वे क्रियमाणेऽपि केनचित्प्रकारेण घटेऽस्तित्वमात्रं सिद्ध्यति, तत्समानाधिकरणानामनन्तानामपि तद्व्यतिरिक्तानां धर्माणामुपेक्षैव जायते ।
ननु तर्हि नयवाक्यं किं प्रमाणम्, अप्रमाणं वा ? इति चेत्, शृणु नयवाक्यं तावन्न प्रमाणम्, नाप्यप्रमाणम्; किन्तु प्रमाणैकदेशः । तेन हि प्रमाणप्रतिपन्नानन्तधर्माणां मध्यादेकस्यैवास्तित्वादेर्धर्मस्य ग्रहात् ।
ननु एकधर्मग्राहकत्वाविशेषात्कथं नास्य दुर्नयवाक्यत्वम् ? इति चेत्, न, दुर्नयवाक्यं तु शेषधर्मापलापकत्वैनैकधर्मस्य ग्राहकम्; इदं तु शेषधर्मोपेक्षकत्वेनैकधर्मग्राहकम; इत्यनयोर्विशेषः । प्रमाणवाक्यैकदेशत्वं त्वस्य प्रमाणावाक्यान्तनिष्ठत्वात्। अत एव सूत्रेऽपि प्रमाणवाक्यविशेषणं 'नयवाक्यगर्भितम्,' इति ।
नयवाक्यानि समुदितत्वेन गर्भे जातान्यस्य इति नयवाक्यगर्भितम् इति । -: ननुं लक्ष्यज्ञानस्य लक्षणाधीनत्वात्तेषां लक्षणानि वाच्यानि, तत्कथं नोक्तानि ? “इति चेत्, आकर्णय, अपरधर्मापलापेनैकधर्मग्राहि वाक्यं दुर्नयवाक्यम् । 'धर्मग्राहिवाक्यं दुर्नयवाक्यम्' इत्युक्ते प्रमाणवाक्येऽतिप्रसक्तिः, तत उक्तम्,.'एक' इति । तथा च प्रमाणवाक्येऽतिप्रसक्तिनिरासः, तस्य समुदितयावद्धर्मग्राहित्वेन एकधर्मग्राहित्वाभावात् । तावत्युक्ते नयवाक्येऽतिप्रसक्तिः, तस्याप्येकधर्मग्राहित्वात्; अत उक्तम्-'धर्मापलापेन' इति । तथा च यावद्धर्मापलापमादायासम्भवः, तत उक्तम्-'अपरधर्म' इति; ग्राह्यधर्मप्रतियोगिकान्योऽन्याभाव-प्रतियोगिधर्मापलपनम्, इत्यर्थः ।
नयवाक्यलक्षणं तु अपरधर्मग्रहोपेक्षकत्वे सत्येकधर्मग्राहिवाक्यं नयवाक्यम् । (नयामृतम् । ***
* * R)