Book Title: Nayamrutam
Author(s): Vairagyarativijay
Publisher: Bherulalji Kanaiyalalji Kothari Religious Trust

View full book text
Previous | Next

Page 104
________________ नामप्यनन्तानां धर्माणामपलापात् । अत एव सूत्रेऽपि प्रमाणवाक्यविशेषणं 'दुर्नयवाक्यदूरितम्' इति । तल्लक्षणस्पर्शमात्राभावदुर्नयवाक्यं दूरीतं-दूरीकृतं “येन, तत्तथा, इति । __ अथ 'स्याद् घटोऽस्ति' इत्येवास्तु, ‘एव' इति पदमधिकम्, इति चेत् न, एवं हि नयवाक्येऽतिप्रसक्तेः ।। ननु नयवाक्यं कीदृशम् ? इति चेत्; शृणु, स्यादस्ति घटः' इति तावन्नयवाक्यम् । अत्र हि स्यात्पदलाञ्छितत्वे क्रियमाणेऽपि केनचित्प्रकारेण घटेऽस्तित्वमात्रं सिद्ध्यति, तत्समानाधिकरणानामनन्तानामपि तद्व्यतिरिक्तानां धर्माणामुपेक्षैव जायते । ननु तर्हि नयवाक्यं किं प्रमाणम्, अप्रमाणं वा ? इति चेत्, शृणु नयवाक्यं तावन्न प्रमाणम्, नाप्यप्रमाणम्; किन्तु प्रमाणैकदेशः । तेन हि प्रमाणप्रतिपन्नानन्तधर्माणां मध्यादेकस्यैवास्तित्वादेर्धर्मस्य ग्रहात् । ननु एकधर्मग्राहकत्वाविशेषात्कथं नास्य दुर्नयवाक्यत्वम् ? इति चेत्, न, दुर्नयवाक्यं तु शेषधर्मापलापकत्वैनैकधर्मस्य ग्राहकम्; इदं तु शेषधर्मोपेक्षकत्वेनैकधर्मग्राहकम; इत्यनयोर्विशेषः । प्रमाणवाक्यैकदेशत्वं त्वस्य प्रमाणावाक्यान्तनिष्ठत्वात्। अत एव सूत्रेऽपि प्रमाणवाक्यविशेषणं 'नयवाक्यगर्भितम्,' इति । नयवाक्यानि समुदितत्वेन गर्भे जातान्यस्य इति नयवाक्यगर्भितम् इति । -: ननुं लक्ष्यज्ञानस्य लक्षणाधीनत्वात्तेषां लक्षणानि वाच्यानि, तत्कथं नोक्तानि ? “इति चेत्, आकर्णय, अपरधर्मापलापेनैकधर्मग्राहि वाक्यं दुर्नयवाक्यम् । 'धर्मग्राहिवाक्यं दुर्नयवाक्यम्' इत्युक्ते प्रमाणवाक्येऽतिप्रसक्तिः, तत उक्तम्,.'एक' इति । तथा च प्रमाणवाक्येऽतिप्रसक्तिनिरासः, तस्य समुदितयावद्धर्मग्राहित्वेन एकधर्मग्राहित्वाभावात् । तावत्युक्ते नयवाक्येऽतिप्रसक्तिः, तस्याप्येकधर्मग्राहित्वात्; अत उक्तम्-'धर्मापलापेन' इति । तथा च यावद्धर्मापलापमादायासम्भवः, तत उक्तम्-'अपरधर्म' इति; ग्राह्यधर्मप्रतियोगिकान्योऽन्याभाव-प्रतियोगिधर्मापलपनम्, इत्यर्थः । नयवाक्यलक्षणं तु अपरधर्मग्रहोपेक्षकत्वे सत्येकधर्मग्राहिवाक्यं नयवाक्यम् । (नयामृतम् । *** * * R)

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164