Book Title: Nayamrutam
Author(s): Vairagyarativijay
Publisher: Bherulalji Kanaiyalalji Kothari Religious Trust

View full book text
Previous | Next

Page 106
________________ के पुनः कालादय: ? काल:, आत्मरूपम्, अर्थः, सम्बन्धः, उपकारः, गुणिदेशः, संसर्गः, शब्दः, इति । - कथमेभिरभेदवृत्त्या एकस्मिन्नेव वस्तुनि युगपद्विरुद्धधर्मग्रह: ? इति चेत्; निशम्यताम्-‘स्याद् घटोऽस्त्येव' इत्यत्र घटे यत्कालमस्तित्वं तत्कालास्तत्रैव शेषा नास्तित्वादयो धर्माः सन्ति; इति कालेनाभेदवृत्तिः ।। ननु अस्तित्वेन सहाविरुद्धानां द्रव्यत्वादीनां धर्माणामेकत्रापि कालेनाभेदवृत्तिर्भवतु, परं सर्वथा तद्विरुद्धानां नास्तित्वादीनां कथं सा सम्भवति ? इति चेत् सत्यम्, अस्तित्वनिरूपणसमये हि घटे नास्तित्वस्यापि वर्तमानत्वात् । तथा च अयमर्थः-'स्यादस्त्येव घटः' इत्युक्तेऽस्तित्वसमानाधिकरणा अनन्ता अपि धर्माः प्रतिपाद्यन्ते, घटत्वपृथुबुध्नोदराद्याकारवत्त्वद्रव्यत्वाभिधेयत्वप्रमेयत्वादिभिरनन्तैर्धमविशिष्टस्यैव घटस्य सत्तायोगात् । घटत्वाद्यनन्तधर्मावैशिष्ट्ये च घटस्यासत्त्वप्रसङ्गात्, तस्माद् घटेऽस्तित्व-कैवल्याभावेन केवलास्तित्वस्य वक्तुमशक्यत्वात्, तत्समानाधिकरणानन्तधर्माणामपि. तस्मिन्नेव काले प्रतिपादनात् कालेनाभेदवृत्तिः । 'आत्मरूपम् घटपर्यायत्वादिकम्, तेनान्यधर्मः सहास्तित्वस्याभेदवृत्तिः । • यथा-अस्तित्वं घटपर्यायः, तथाऽन्येऽपि धर्मा घटपर्याया एव; इत्यर्थः । - 'अर्थः' नाम आधारः, ततो य एवं घटलक्षणोऽस्तित्वस्याधारः स एवापरधर्माणामपि; इत्यर्थाभेदवृत्तिः । ... 'सम्बन्धः' अविष्वग्भावरूपः, ततो य एवास्तित्वस्य घटेऽविष्वग्भावरूप: सम्बन्धः स एवापरधर्माणामपि; इति सम्बन्धाभेदवृत्तिः । ..य एव घटे लोकप्रवृत्तिलक्षण उपकारोऽस्तित्वेन क्रियते, स एवान्यधर्मेरपि, सकलधर्मविशिष्ट एव घटे लोकप्रवृत्तेर्जायमानत्वात्; इत्युपकाराभेदवृत्तिः । _ 'गुणी' घटः, तस्य 'देशः' क्षेत्रं भूतलादिकम्, तदाश्रित्य यथा घटेऽस्तित्वसद्भावः, तथाऽन्यधर्माणामपि; इति गुणिदेशाभेदवृत्तिः । भेदप्राधान्ये सति सम्बन्धः 'संसर्गः' ततो य एव घटेऽस्तित्वस्य संसर्गः स एवान्यधर्माणामपि; इति संसर्गाभेदवृत्तिः । नयामतम "LASTDOODAICHODotoshoondon

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164