Book Title: Nayamrutam
Author(s): Vairagyarativijay
Publisher: Bherulalji Kanaiyalalji Kothari Religious Trust

View full book text
Previous | Next

Page 118
________________ किंच-सदसद्रूपं वस्त्वभ्युपगच्छता सत्त्वमसत्त्वं च वस्तुधर्मतयाऽभ्युपगतं भवति । ततश्चात्रापि वक्तव्यम् धर्मधर्मिणोः किं तावद्भेदः ? आहोश्विदभेदः ? * आहोश्विद्भेदाभेदः ? इति । तत्र यदि तावद्भेदः, ततः सदसत्त्वयोर्भिन्नत्वात् कथमेकं सदसद्रूपम् ? इति । अथाभेदः, ततः सदसत्त्वयोरेकत्वम्, एकस्माद्धर्मिणो भिन्नत्वात्, तत्स्वरूपवत् । अतोऽपि कथमेकं सदसद्रूपम् ? इति । धर्मिणो वा भेदः, सदसत्त्वयोरभिन्नत्वात्, स्वात्मवत् । इत्थमपि कथमेक मुभयरूपम् ? । अथ भेदाभेदः, अत्रापि येनाकारेण भेद:, तेन भेद एव ? येन चाभेदः, तेनाभेद एवं ? तदेवमपि नैकमुभयरूपम् । अथ यैनैवाकारेण भेदः, तेनैवाभेदः ? येनैव चाभेद:, तेनैव भेदः ? इति । एतदप्यचारु, विरोधात् । यदि येनाकारेण भेदः, कथं तेनैवाभेदः ? अथाभेद कथं भेदः ? इति । अथ येनाप्याकारेण भेदः, तेनापि भेदश्चाभेदश्च इत्युभयम् ? येनापि चाभेदः, तेनाप्यर्भेदश्च भेदश्च; इत्युभयमेव ? । अत्रापि येनाकारेण भेद; तेन भेद एव; येन चाभेदः, तेनाभेद एव; इति तदेवावर्तते । किंच-भेदाभेदमभ्युपगच्छताऽवश्यमेवेदमङ्गीकर्त्तव्यम् - इह धर्मधर्मिणोधर्मधर्मितया भेदः । स्वभावतोऽपि हि तयोर्भेदेऽङ्गीक्रियमाणे परस्परतः प्रविभक्तरूपं • पदार्थद्वयमेवाङ्गीकृतं स्यात्, न पुनरेकं द्विरूपम् इति । तदत्रापि निरूप्यते न ह्यनासादितस्वभावभेदयोर्धर्मधर्मिणोर्धर्मधर्मितयापि भेदो युज्यते; तथाहि-यदि यो धर्मस्य स्वभावः, स एव धर्मिणोऽपि; एवं सत्यसौ धर्मी धर्म एव स्यात्, तत्स्वभावत्वात्, धर्मस्वरूपवत् । धर्मोऽपि धर्मिमात्रमेव स्यात्, इति ? ततश्चैवं धर्मधर्मिणौ स्वभावभेदानासादनेनाप्रतिलब्धभेदौ कथं भवतः ? इति । न च स्वभावतोऽपि तयोर्भेदाभेदकल्पना युक्ता, पूर्वदोषानतिवृत्तेः । किं च-'संविन्निष्ठाश्च विषयव्यवस्थितयः' न च सदसद्रूपं वस्तु संवेद्यते, नयामृतम् १०३.

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164