________________
किंच-सदसद्रूपं वस्त्वभ्युपगच्छता सत्त्वमसत्त्वं च वस्तुधर्मतयाऽभ्युपगतं भवति । ततश्चात्रापि वक्तव्यम् धर्मधर्मिणोः किं तावद्भेदः ? आहोश्विदभेदः ? * आहोश्विद्भेदाभेदः ? इति ।
तत्र यदि तावद्भेदः, ततः सदसत्त्वयोर्भिन्नत्वात् कथमेकं सदसद्रूपम् ? इति । अथाभेदः, ततः सदसत्त्वयोरेकत्वम्, एकस्माद्धर्मिणो भिन्नत्वात्, तत्स्वरूपवत् । अतोऽपि कथमेकं सदसद्रूपम् ? इति ।
धर्मिणो वा भेदः, सदसत्त्वयोरभिन्नत्वात्, स्वात्मवत् । इत्थमपि कथमेक मुभयरूपम् ? । अथ भेदाभेदः, अत्रापि येनाकारेण भेद:, तेन भेद एव ? येन चाभेदः, तेनाभेद एवं ? तदेवमपि नैकमुभयरूपम् ।
अथ यैनैवाकारेण भेदः, तेनैवाभेदः ? येनैव चाभेद:, तेनैव भेदः ? इति । एतदप्यचारु, विरोधात् ।
यदि येनाकारेण भेदः, कथं तेनैवाभेदः ? अथाभेद कथं भेदः ? इति ।
अथ येनाप्याकारेण भेदः, तेनापि भेदश्चाभेदश्च इत्युभयम् ? येनापि चाभेदः, तेनाप्यर्भेदश्च भेदश्च; इत्युभयमेव ? । अत्रापि येनाकारेण भेद; तेन भेद एव; येन चाभेदः, तेनाभेद एव; इति तदेवावर्तते ।
किंच-भेदाभेदमभ्युपगच्छताऽवश्यमेवेदमङ्गीकर्त्तव्यम् - इह धर्मधर्मिणोधर्मधर्मितया भेदः । स्वभावतोऽपि हि तयोर्भेदेऽङ्गीक्रियमाणे परस्परतः प्रविभक्तरूपं • पदार्थद्वयमेवाङ्गीकृतं स्यात्, न पुनरेकं द्विरूपम् इति ।
तदत्रापि निरूप्यते न ह्यनासादितस्वभावभेदयोर्धर्मधर्मिणोर्धर्मधर्मितयापि भेदो युज्यते; तथाहि-यदि यो धर्मस्य स्वभावः, स एव धर्मिणोऽपि; एवं सत्यसौ धर्मी धर्म एव स्यात्, तत्स्वभावत्वात्, धर्मस्वरूपवत् ।
धर्मोऽपि धर्मिमात्रमेव स्यात्, इति ? ततश्चैवं धर्मधर्मिणौ स्वभावभेदानासादनेनाप्रतिलब्धभेदौ कथं भवतः ? इति । न च स्वभावतोऽपि तयोर्भेदाभेदकल्पना युक्ता, पूर्वदोषानतिवृत्तेः ।
किं च-'संविन्निष्ठाश्च विषयव्यवस्थितयः' न च सदसद्रूपं वस्तु संवेद्यते,
नयामृतम्
१०३.