________________
शब्देनाभिधानम् । किं तर्हि ? क्रमार्पितयोस्तयोः सर्वथा वक्तुमशक्यवक्तव्यत्वस्य धर्मान्तरस्य तेन प्रतिपादनमिष्यते; न च तेन सहितस्य सत्त्वस्योभयस्य वा प्रतीतिः, धर्मान्तरत्वसिद्धिर्वा ।
प्रथमभङ्गे सत्त्वस्य प्रधानभावेन प्रतीतेः द्वितीये पुनरसत्त्वस्य तृतीये क्रमार्पितयोः, चतुर्थे वक्तव्यत्वस्य, पञ्चमे सत्त्वसहितस्य, षष्ठे पुनरसत्त्वोपेतस्य, सप्तमे क्रमवत्तदुभययुक्तस्य सकलजनैः सुप्रतीतत्वात्; इति ।
ननु च वक्तव्यत्वस्य धर्मान्तरत्वे वस्तुनि वक्तव्यत्वस्याष्टमस्य धर्मान्तरस्य भावात् कथं सप्तविध एव धर्मः सप्तभङ्गीविषयः स्यात् ? इत्यप्यपेशलम्, सत्त्वादिभिरभिधीयमानतया वक्तव्यत्वस्य प्रसिद्धेः सामान्येन वक्तव्यत्वस्यापि विशेषेण वक्तव्यतायामवस्थानात् । भवतु वा वक्तव्यत्वात्तयोर्धर्मयोः प्रसिद्धिः, तथापि आभ्यां विधिप्रतिषेधकल्पनाविषयाभ्यामिव सप्तभङ्गयन्तरस्य प्रवृत्ते तद्विषयसप्तविध-धर्मनियमविघातः; यतः तद्विषयः संशयः सप्तधैव न स्यात् । तद्धेतुजिज्ञासा वा तन्निमित्तः प्रश्नो वा, वस्तुन्येकत्र सप्तविधवाक्यनियमहेतुः । इत्युपपन्नेयं प्रश्नवशादेकवस्तुन्यविरोधेन विधिनिषेधकल्पना सप्तभङ्गी । अविरोधेनाभिधानात् प्रत्यक्षादिविरुद्धविधिप्रतिषेधकल्पनायाः सप्तभङ्गीरूपता प्रत्युक्ता, एकवस्तुनीत्यभिधानाच अनेकवस्त्वाश्रयकल्पनायाः इति ।
,
I
• नन्वियं सप्तभङ्गी व भवति ? इत्याह- 'जिनराजशासने सा सप्तभङ्गी जयति' इत्युत्तरार्द्धान्वयः । किं विशिष्टा ? 'अनेकान्तविचारवर्द्धिनी' - स्याद्वादविचारवृद्धिकारिणी, इत्यर्थः । अनया किल सप्तभङ्गया एकान्तवादनिरासपूर्वमनेकान्तवाद एवोद्दीप्तो भवति, एकस्मिन्नेव वस्तुनि कालाद्यभेदेन सत्त्वासत्त्वाद्यनेकधर्माणां प्रतिपादनात् ।
नन्वेवं घटादिरूपमेकं वस्तु 'सदसत्' इत्युक्तं भवति, तच्च नैव घटते; तथाहि सत्त्वमसत्त्वपरिहारेण व्यवस्थितम् असत्त्वमपि सत्त्वपरिहारेण, अन्यथा तयोरविशेषात् । ततश्च तद्यदि सत् कथमसत् ? अथासत्, कथं सत् ? इत्येकत्र सदसत्त्वयोर्विरोधात् । तथा चोक्तम्
१०२
यस्मात्सत्त्वमसत्त्वं च विरुद्धं हि मिथो द्वयम् । वस्त्वेकं सदसद्रूपं तस्मात्खलु न युज्यते ।।
नयामृतम्