________________
एवं सकलवाचकरहितत्वादवक्तव्यं युगपत्सदसत्त्वाभ्यां प्रधानभावार्पिताभ्यामाक्रान्तं व्यवतिष्ठते, न च सर्वथाऽवक्तव्यम्, अवक्तव्यशब्देनाप्यनभिधेयत्वप्रसङ्गात्, इति चतुर्थः ।
शेषास्रयः सुगमाभिप्रायाः । इयं च सकलादेशापरपर्याया प्रमाणसप्तभङ्गी प्रमाणवाक्यैर्निरूपिता इति ।
ननु नयवाक्ये प्रमाणवाक्ये च कथं सप्तैव भङ्गाः सम्भवन्ति ? इति चेत्; प्रतिपाद्यप्रश्नानां तावतामेव सम्भवात्, प्रश्नवशादेव हि सप्तभङ्गीनियमः ।
सप्तविधप्रश्नोऽपि कुतः ? इति चेत्; सप्तविधजिज्ञासासंभवात् । सापि सप्तधा कुतः ? इति चेत्; सप्तधा संशयोत्पत्तेः । सोऽपि सप्तधा कथम् ? इति चेत्; तद्विषयवस्तुधर्मस्य सप्तविधत्वात् । तथाहि
सत्त्वं तावद्वस्तुधर्मः, तदनभ्युपगमे वस्तुनो वस्तुत्वायोगात्, खरशृङ्गवत् । तथा, कथञ्चिदसत्त्वं तद्ध[गतधर्म एव स्वरूपादिभिरिव पररूपादिभिरपि, अस्यासत्त्वानङ्गीकारे प्रतिनियतस्वरूपासंभवात् वस्तुप्रतिनियमविरोधः स्यात् । एतेन क्रमार्पितोभयत्वादीनां वस्तुधर्मत्वं प्रतिपादितं प्रतिपत्तव्यम् । तदभावे क्रमेण सदसत्त्वविकल्पशब्दव्यवहारविरोधात्, सहावक्तव्योपलक्षितोत्तरधर्मविकल्पत्रय [विकल्प] सत्त्वव्यवहारस्य चासत्त्वप्रसङ्गात् । न चामी व्यवहारा निर्विषया एव, वस्तुप्रतिपत्तिप्रवृत्तिप्राप्तिनिश्चयात्, तथाविधरूपादिव्यवहारवत् ।
ननु प्रथमद्वितीयधर्मवत्प्रथमतृतीयादिधर्माणां क्रमेतरार्पितानां धर्मान्तरत्वसिद्धेर्न सप्तविधधर्मनियमः सिद्धयेत् । इत्यप्यसुन्दरम् क्रमार्पितयोः प्रथमतृतीयधर्मयोर्द्वयोर्धर्मान्तरत्वेनाप्रतीतेः सत्त्वद्वयस्यासम्भवात्, विवक्षितस्वरूपादिना · सत्त्वस्यैकत्वात्, तदन्यस्वरूपादिना सत्त्वस्य द्वितीयस्य संभवे विशेषादेशात्, तंत्प्रतिपक्षभूतासत्त्वस्याप्यपरस्य संभवात्, अपरधर्मसप्तकसिद्धेः सप्तभङ्गयन्तरसिद्धितो न कश्चिदुपालम्भः । एतेन द्वितीयतृतीयधर्मयोः क्रमार्पितयोर्धर्मान्तरत्वमप्रातीतिकं व्याख्यातम् ।
कथमेवं प्रथमचतुर्थयोर्द्वितीयचतुर्थयोश्च सहितयोर्धर्मान्तरत्वं स्यात् ? इति चेत्; चतुर्थे अवक्तव्यधर्मे सत्त्वासत्त्वयोरपरामर्शत्वात्, न खलु सहार्पितयोरवक्तव्य
नयामृतम् 55000
१०१