________________
‘अस्त्येव कुम्भः' इत्येतावन्मात्रोपादाने कुम्भस्य स्तम्भाद्यस्तित्वेनापि सर्वप्रकारेणास्तित्वप्राप्तेः प्रतिनियतस्वरूपानुपपत्तिः स्यात्, तत्प्रतिपत्तये 'स्यात्' इति शब्दः - प्रयुज्यते, स्यात्-कथञ्चित् स्वद्रव्यादिभिरेवायमस्ति न परद्रव्यादिभिरपि, इत्यर्थः ।
यत्रापि चासौ न प्रयुज्यते, तत्रापि व्यवच्छेदफलैवकारवद् बुद्धिमद्भिः प्रतीयत एव । यदुक्तम्
" सोऽप्रयुक्तोऽपि वा तज्ज्ञैः सर्वत्रार्थात्प्रतीयते" यथैवकारोऽयोगादिव्यवच्छेदप्रयोजन इति ।
अयं भावार्थः स्यात्पदेन हि स्वरूपेणास्तित्वायोगव्यवच्छेदः क्रियते, एवकारेण च पररूपेण नास्तित्वायोगव्यवच्छेदः क्रियते इति प्रथमो भङ्गः ।
1
'स्यात्' कथञ्चित् 'नास्त्येव कुम्भादिः ' स्वद्रव्यादिभिरिव परद्रव्यादिभिरषि, वस्तुनोऽसत्त्वानङ्गीकारे प्रतिनियतस्वरूपाभावाद्वस्तुप्रतिनियतिर्न स्यात् ।
न चास्तित्वैकान्तवादिभिरत्र नास्तित्वमसिद्धम् इति वक्तव्यम् कथञ्चित्तस्य वस्तुनि युक्तिसिद्धत्वात्, साधनवत् । न हि क्वचिदनित्यत्वादौ साध्ये. सत्त्वादिसाधनस्यास्तित्वं विपक्षे नास्तित्वमन्तरेणोपपन्नम्, तस्य साधनत्वाभावप्रसङ्गात्; तस्माद्वस्तुनोऽस्तित्वं नास्तित्वेनाविनाभूतम्, नास्तित्वं च तेन, इति विवक्षावशाचानयोः प्रधानोपसर्जनभावः ।
प्रथमभङ्गे हि विधेः प्राधान्येन निरूपणम्, प्रतिषेधस्य गौणत्वेन । द्वितीयभङ्गे तु प्रतिषेधस्य प्राधान्येन निरूपणम्, विधेस्तु गौणत्वेन; इत्यनयोर्विशेषः । एवमुत्तरभङ्गेष्वपि ज्ञेयम्, इति द्वितीयो भङ्गः ।
तृतीयः स्पष्ट एव द्वाभ्यामस्तित्वनास्तित्वधर्माभ्यां युगपत्प्रधानतयाऽर्पिताभ्यामेकस्य वस्तुनोऽभिधित्सायां तादृशस्य शब्दस्यासम्भवात्, अवक्तव्यं जीवादि वस्तु । तथाहि-सदसत्त्वगुणद्वयं युगपदेकत्र 'सत्' इत्यनेन वक्तुमशक्यम्, तस्यासत्त्वप्रतिपादनासमर्थत्वात्; तथा 'असत्' इत्यनेनापि, तस्य सत्त्वप्रत्यायनसामर्थ्याभावात्; न च पुष्पदन्तादिवत् सांकेतिकमेकपदं तद्वक्तुं समर्थम्, तस्यापि क्रमेणार्थद्वयप्रत्यायने सामर्थ्योपपत्तेः ।
१००
नयामृतम्