________________
व्याख्या- 'एकस्मिन्' वस्तुनि ' क्रमात् ' परिपाट्या विधिः साध्यते, 'चः ' पुनरर्थे 'निषेधः ' एकत्रैव कालाद्यभेदेऽपि निरुपकवचनभेदात् विधिसाधनान्तरं निषेधोऽपि साध्यत इत्यर्थः ; 'युगपच' इति चकारस्य भिन्नक्रमत्वादेकस्मिन्नेव वस्तुनि सहैव निरूपणं निपुणवचनरचनया विधिनेषेधौ यया सप्तभङ्गया साध्येते इत्यर्थः ।
ननु यया प्रमाणसप्तभङ्गया क्रमयौगपद्याभ्यां विधिनिषेधौ साध्येते, सप्तभङ्गी सोदाहरणा सुव्यक्ता च निरुपणीया इति चेत्; निरूप्यते
सा
एकत्र जीवादी वस्तुनि एकैकसत्त्वादिधर्मविषयप्रश्नवशादविरोधेन प्रत्यक्षादिबाधापरिहारेण पृथग्भूतयोः समुदितयोश्च विधिनिषेधयोः पर्यालोचनया कृत्वा स्याच्छब्दलाञ्छितो वक्ष्यमाणैः सप्तभिः प्रकारैर्वचनविन्यासः सप्तभङ्गी इति गीयते ।
तद्यथा
स्यादस्त्येव सर्वम्, इति विधिकल्पनया प्रथमो भङ्गः । स्यान्नास्त्येव सर्वम्, इति निषेधकल्पनया द्वितीयः । स्यादस्त्येव, स्यान्नास्त्येव, इति क्रमतो विधिनिषेधकल्पनया तृतीयः । स्यादवक्तव्यमेव इति युगपद्विधिनिषेधकल्पना चतुर्थः । स्यादस्त्येव, स्यादवक्तव्यमेव, इति विधिकल्पनया युगपद्विधिनिषेधकल्पनया च पञ्चमः । स्यान्नास्त्येव, स्यादवक्तव्यमेव, इति निषेधकल्पनया युगपद्विधिनिषेधकल्पनयां च षष्ठः । स्यादस्त्येव, स्यान्नास्त्येव, स्यादवक्तव्यमेव, इति क्रमतो विधिनिषेधकल्पनया युगपद्विधिनिषेधकल्पनया च सप्तमः ।
तत्र 'स्यात्' कथञ्चित्स्वद्रव्यक्षेत्रकालभावरूपेणास्त्येव सर्वं कुम्भादि, न पुनः परद्रव्यक्षेत्र कालभावरूपेण; तथाहि - कुम्भो द्रव्यतः पार्थिवत्वादिना स्वरूपेणास्ति, •न जलत्वादिरूपेण; क्षेत्रतः पाटलिपुत्रकत्वेन, न कान्यकुब्जादित्वेन; कालतः शैशिरत्वेन, न वासन्तिकादित्वेन; भावतः श्यामत्वेन, न रक्तत्वादिना; अन्यथा स्वरूपहानिप्रसङ्ग इति ।
अवधारणं चात्रभङ्गेऽनभिमतार्थव्यावृत्त्यर्थमुपात्तम्, इतरथाऽनभिहिततुल्यतैवास्य वाक्यस्य प्रसज्येत; प्रतिनियतस्वार्थानभिधानात् तदुक्तम् -'वाक्येऽवधारणं तावदनिष्टार्थनिष्पत्तये कर्त्तव्यम् अन्यथाऽनुक्तसमत्वात्तस्य कुत्रचित्' । तथापि
( नवामृतम्
९९