SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ तथाहि-संकल्पमात्रग्राहिणो नैगमस्याश्रयणात् विधिकल्पना प्रस्थादिसंकल्पमात्रम्, 'प्रस्थादि स्यादस्ति' इति । सङ्ग्रहाश्रयणात्तु प्रतिषेधकल्पना, न प्रस्थादिसंकल्पमात्रम्; प्रस्थादिसन्मात्रस्य तथाप्रतीतेः, असतः प्रतीतिविरोधात् इति । व्यवहाराश्रयणाद्वा द्रव्यस्य पर्यायस्य वा प्रस्थादिप्रतीतिः, तद्विपरीतस्यासतो वा प्रत्येतुमशक्तेः । . ऋजुसूत्रस्याश्रयणाद्वा पर्यायमात्रस्य प्रस्थादित्वेन प्रतीतिः, अन्यथा प्रतीत्यनुत्पत्तेः । शब्दाश्रयणाद्वा कालादिभिन्नस्यार्थस्य प्रस्थादित्वम्, अन्यथाऽतिप्रसङ्गात् । समभिरूढाश्रयणाद्वा पर्यायभेदेन भिन्नस्यार्थस्य प्रस्थादित्वम्, अन्यथाऽतिप्रसङ्गात् । एवम्भूताश्रयणाद्वा प्रस्थादिक्रियापरिणतस्यैवार्थस्य प्रस्थादित्वम्, नान्यस्य, अतिप्रसङ्गात्; इति । .. . . तथा 'स्यादुभयं' क्रमार्पितोभयनयाश्रयणात्, ‘स्यादवक्तव्यम्' सहार्पिलोभयनयाश्रयणात्, एवमवक्तव्योत्तराः शेषास्रयो भङ्गा यथायोगमुदाहार्याः । इयं हि वस्त्वंशमात्रग्राहित्वेन विकलादेशरूपा नयसप्तभङ्गी इति । . एवमेते सप्तापि नयाः परस्परनिरपेक्षा अपि श्रीजिनशासने समुदिता भवन्ति, इति चतुर्थवृत्तार्थः ।।४।। नन्वेते वस्त्वंशग्राहिणो भिन्नार्थगोचरा अपि नयाः कथमेकत्र समुदिता भवन्ति ? इति चेत्, प्रमाणसप्तभङ्ग्या इति ब्रूमः । ___ ननु काऽसौ प्रमाणसप्तभङ्गी ? इत्याशंकायामाह यया विधिश्चापि निषेध एक स्मिन्साध्यतेऽर्थे युगपत्क्रमाञ्च । सा सप्तभङ्गी जिनराजशासने जयत्यनेकान्तविचारवर्द्धिनी ।।५।। sometimes नयामृतम्
SR No.002246
Book TitleNayamrutam
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherBherulalji Kanaiyalalji Kothari Religious Trust
Publication Year2002
Total Pages164
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy