________________
ननु पूर्वनिरूपणे कथं नैते नयाभासाः पृथक् दर्शिताः ? इति चेत्; तत्रैतेषां नयानां शब्दविचारचतुरत्वेन विशेषतात्पर्याविवक्षयैवकारमात्रविहितविभेदास्त्रयोऽप्येते "नयाभासा न प्रदर्शिता इति हार्दम् । एतेषु च नयेषु ऋजुसुत्रान्ताश्चत्वारोऽर्थप्रधानाः, शेषास्तु त्रयः शब्दप्रधानाः प्रत्येतव्याः ।
कः पुनरत्र बहुविषयो नयः ? को वाऽल्पविषयः ? कश्चात्र कारणभूतः कार्यभूतो वा ? इति चेत् पूर्वः पूर्वो बहुविषयः कारणभूतश्च, परः परोऽल्पविषयः कार्यभूतश्च, इति ब्रूमः । सङ्ग्रहाद्धि नैगमो बहुविषयो भावविषयत्वात् यथासति संकल्पस्तथाऽसत्यपि । सङ्ग्रहस्तु ततोऽल्पविषयः सन्मात्रगोचरत्वात्, तत्पूर्वकत्वाच्च तत्कार्यम् ।
सङ्ग्रहाद् व्यवहारोऽपि, तत्पूर्वकः सद्विशेषावबोधकत्वात्, अल्पविषय एव । व्यवहारात्कालत्रितयवृत्त्यर्थगोचरात् ऋजुसुत्रोऽपि तत्पूर्वको वर्तमानार्थगोचरतयाऽल्पविषय एव ।
कालादिभेदेनाभिन्नार्थप्रतिपादकात् ऋजुसुत्रात्, तत्पूर्वकः शब्दनयोऽप्यल्पविषय एव तद्विपरीतार्थगोचरत्वात् ।
,
शब्दनयात् पर्यायभेदेनार्थभेदं प्रतिपद्यमानात् तद्विपर्ययात्तत्पूर्वकः समभिरूढोऽप्यल्पविषय एव ।
समभिरूढतश्च क्रियाभेदेनाभिन्नमर्थं प्रतिपादयतस्तद्विपर्ययेण एवम्भूतोऽप्यल्पविषय एव इति ।
नन्वेते नयाः किमेकस्मिन्विषयेऽविशेषेण प्रवर्त्तन्ते ? किंवा विशेषोऽस्ति ? इति अत्रोच्यते यत्रोत्तरो नयोऽर्थांशे वर्त्तते, तत्र पूर्वः पूर्वोऽपि वर्त्तत एव । • यथा - सहस्रेऽष्टशती, तस्यां वा पञ्चशती, इत्यादौ पूर्वसंख्या उत्तरसंख्यायामविरोधेन वर्तते । यत्र तु पूर्वः पूर्वो नयः प्रवर्त्तते, तत्र उत्तर उत्तरो नयो न प्रवर्त्तते, पञ्चशत्यादौ अष्टशत्यादिवत् । एवं नयार्थे प्रमाणस्यापि सर्वांशवस्तुवेदिनो वृत्तिरविरुद्धा । न तु प्रमाणार्थे नयानां वस्त्वंशमात्रवेदिनाम् इति ।
कथं पुनर्नयसप्तभङ्गयाः प्रवृत्तिः ? इति चेत्; प्रतिपर्यायं वस्तुन्येकत्राविरोधेन विधेः प्रकल्पनया इति ब्रूमः ।
नयामृतम्
९७