________________
नानार्थान् समेत्याभिमुख्येन रूढः समभिरूढः । शब्द नयो हि पर्यायशब्दभेदान्नार्थ-भेदमभिप्रेति । कालादिभेदत एवार्थभेदाभिप्रायात् । अयं तु पर्यायभेदेनाप्यर्थभेदमभिप्रेति । तथाहि-'इन्द्रः, शक्रः, पुरन्दरः' इत्याद्याः शब्दा विभिनार्थगोचराः, विभिन्नशब्दत्वात्, वाजिवारणवत् इति । ___'एवम्' इत्थं विवक्षितक्रियापरिणामप्रकारेण 'भूतम्' परिणतमर्थं योऽभिप्रेति, स एवं भूतो नयः । समभिरूढो हि शकनक्रियायां सत्यामसत्यां वा देवराजार्थस्य शक्रव्यपदेशमभिप्रेति, पशुविशेषस्य गमनक्रियायां सत्यामसत्यां वा गोव्यपदेशमभिप्रैति, तथा रूढेः सद्भावात् । अयं तु शकनक्रियापरिणतिक्षणे एवं शक्रव्यपदेशमभिप्रेति, न पूजनाभिषेचनक्षणे, अतिप्रसङ्गात् । गमनक्रियापरिणतिक्षणे एव गोव्यपदेशमभिप्रेति, न स्थितिक्षणेऽपि अतिप्रसङ्गात्, एवं सर्वत्रापि इति ।
अथ श्रीवादीदेवसूरिरचितग्रन्थेषु शब्दसमभिरूढेवंभूतनयानामेवं निरूपणं. दृश्यते। तथाहि- कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः । यथा-बभूव भवति भविष्यति सुमेरुः इत्यादि । तद्भेदेन तस्य तमेव समर्थयमानस्तदाभासः, यथा बभूव भवति भविष्यति सुमेरुः इत्यादयो भिन्नकालाः शब्दा भिन्नमेवार्थमभिदधति, भिन्नकालशब्दत्वात्, ताक्सिद्धान्यशब्दवत्, इति ।
पर्यायशब्देषु निरुक्तिभेदेन भित्रमर्थं समभिरोहन् समभिरूढः, इन्दनादिन्द्रः, शकनाच्छक्रः, पूर्दारणात्पुरन्दरः; इत्यादि । पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणस्तदाभासः; यथा-इन्द्रः, शक्रः, पुरन्दरः, इत्यादयः शब्दा भिन्नाभिधेया एव भिन्नशब्दत्वात्, करिकुरङ्गतुरङ्गवत्: इत्यादि ।
शब्दानां स्वप्रवृत्तिनिमित्तभूतक्रियाविशिष्टमर्थं वाच्यत्वेनाभ्युपगच्छन्चेवम्भूतः । यथा-इन्दनमनुभवनिन्द्रः, शकनक्रियापरिणतः शक्रः, पूरिणे प्रवृत्तः पुरन्दरः, इत्युच्यते ।
क्रियाऽनाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपस्तदाभासः । यथा विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यम्, घटशब्दप्रवृत्तिनिमित्तभूतक्रियाशून्यत्वात् । इत्यादिदेवसूरिकृतग्रन्थः ।
पूर्वकृतनिरूपणाञ्चैतन्निरूपणस्यैतेषां त्रयाणामपि नयानां नयाभासयुक्तत्वस्य पार्थक्येन दर्शनाद्विशेषः ।
-
డబుల్ బులు
త
డబడ డ
ల ప
డ
త
త
త
త
త మ
ప
మ
नयामतम