________________
काल-कारक-लिङ्ग-संख्या-साधनोपसर्गभेदाद्भिनमर्थं शपति इति शब्दो नयः, शब्दप्रधानत्वात् । ततोऽपास्तं वैयाकरणानां मतम् । ते हि 'विश्वदृश्वाऽस्य “पुत्रो भविता' इत्यत्र कालभेदेऽपि एकं पदार्थमादृत्य 'यो विश्वं द्रक्ष्यति सोऽस्य पुत्रो भविता' इत्यत्र भविष्यत्कालेनातीतकालस्याभेदाभिधानात्, तथाव्यवहारोपलम्भात् ।
. तशानुपपन्नम्, कालभेदेऽप्यर्थाभेदेऽतिप्रसङ्गात्, भरतेश्वरब्रह्मदत्तयोरप्यतीताना गतार्थगोचरयोरेकार्थतापत्तेः । अथानयोर्भेदविषयत्वानेकार्थता; 'विश्वदृश्वा भविता' इत्यत्रानयोरप्यसौ माभूत्, तत एव न खलु 'विश्वं दृष्टवान्-विश्वदृश्वा' इति शब्दस्य योऽर्थोऽतीतकालः, स भविता, इति शब्दस्यानागतकालो युक्तः पुत्रस्य भाविनोऽतीतत्वविरोधात्, अतीतकालस्याप्यनागतत्वाध्यारोपात्, एकार्थत्वे तु न परमार्थतः कालभेदेऽप्यभिन्नार्थव्यवस्था स्यात् । ... तथा करोति क्रियत इति कर्तृकर्मकारकभेदेऽप्यभिन्नमर्थ पुनः केचिदाद्रियन्ते । य करोति किञ्चित्, स एव क्रियते केनचित्, इति प्रतीतेः । तदप्यसाम्प्रतम् । देवदत्तः कटं करोति, इत्यत्रापि कर्तृकर्मणोदेवदत्तकटयोरभेदप्रसङ्गात् । ' तथा 'पुष्यस्तारक' इत्यत्र लिङ्गभेदेऽपि नक्षत्रार्थमेकमेवाद्रियन्ते पुनः केचित्, तदप्यसङ्गतम्। 'पटः, कुटी' इत्यत्राप्येकत्वानुषङ्गात् । तथा आपोऽम्भः' इत्यत्र संख्याभेदेऽप्येकमर्थं जलाख्यं मन्यन्ते केचित्, तदप्युक्तम्, 'पटस्ते तव' इत्यत्राप्येकत्वानुषङ्गात् । . तथा ‘एहि, मन्ये रथेन यास्यामि' 'न हि यास्यसि' 'यातस्ते पिता' इति साधनभेदेऽप्यर्थाभेदमाद्रियन्ते पुनः केचित्, तदप्यसङ्गतम्, 'अहं पचामि, त्वं पचसि,' इत्यत्राप्येकार्थत्वप्रसङ्गात् ।
तथा 'संतिष्ठते, प्रतिष्ठते' इत्यत्रोपसर्गभेदेऽप्यर्थाभेदमाद्रियन्ते पुनः केचित्, उपसर्गस्य धात्वर्थमात्रोद्योतकत्वात्, तदप्यचारु । तिष्ठति, प्रतिष्ठते' इत्यत्रापि स्थितिगतिक्रिययोरभेदप्रसङ्गात् । ततः कालादिभेदाद्भिन्न एवार्थः शब्दस्य । तथाहि विभिन्नकालादिशब्दो विभिन्नार्थप्रतिपादकः, विभिन्नकालादिशब्दत्वात्, तथाविधान्यशब्दवत् ।
ननु एवं लोकव्यवहारविरोधः स्यात्, इति चेत् विरुध्यताम् । तत्त्वं तु मीमांसते, न हि भेषजमातुरेच्छानुवृत्ति ।
(नयामृतम् ।
ADMISCHOICESCHOODANDIDAmediescomमळालनमा