________________
स च परोऽपरश्च । तत्र परः सकलभावानां सदात्मनैकत्वमभिप्रेति, सर्वमेकम्, अविशेषात्; इत्याद्युक्त्या सत्तात्मत्वेनैकत्वमशेषार्थानां सङ्गृह्यतेऽनेन, इत्यर्थः । .
निराकृताशेषविशेषस्तु सत्ताद्वैताभिप्रायस्तदाभासः, प्रमाणप्रतिपन्नानन्ताशेषधर्माणां लोपात्; इति ।
तथाऽपरसङ्ग्रहो द्रव्यत्वेनाशेषद्रव्याणामेकत्वमभिप्रैति । 'द्रव्यम्' इत्युक्ते हि अतीतानागतवर्तमानकालवत्तिविवक्षिताविवक्षितपर्यायद्रवणशीलानां जीवाजीवतद्भेदप्रभेदानामेकत्वेन सङ्ग्रहः ।
.. सामान्यविशेषाणां सर्वथाऽर्थान्तरत्वाभिप्रायो वाऽपरसङ्ग्रहाभासः, प्रतीतिविरोधात्, इति ।
.. सङ्ग्रहगृहीतार्थानां विधिपूर्वकमवहरणं विभजनं विभेदेन प्ररूपणं व्यवहारः । . सङ्ग्रहस्तु सर्वद्रव्याणि द्रव्यम्, इति; सर्वपर्यायाश्च पर्याय, इति सङ्ग्रहाति । व्यवहारस्तु तद्विभागमभिप्रेति, यद् द्रव्यम् तद्धर्माधर्माकांशकालपुद्गलजीवादिभेदात् .. षोढा इति । एवं सहभावित्वक्रमभावित्वरूपं पर्यायविभागमपि यथासम्भवमभिप्रैति व्यवहारः ।
कल्पनाऽऽरोपितद्रव्यपर्यायप्रविभागमभिप्रेति व्यवहाराभासः, द्रव्यादिप्रविभागस्तु न सन्, प्रपञ्चरूपत्वात्; इत्यादितदुक्तिः ।
'ऋजु'–प्राञ्जलम्-वर्तमानक्षणमात्रं सूत्रयति, इति ऋजुसूत्रः ; सुखक्षणः सम्प्रत्यस्ति इत्यादिः । द्रव्यस्य सतोऽप्यनर्पणात्, अतीतानागतयोश्च विनष्टानुत्पन्नत्वेन असम्भवात् । न चैवं लोकव्यवहारविलोपप्रसङ्गः, नयस्यास्यैवं विषयमात्रप्ररूपणात्, लोकव्यवहारस्तु संकलनयसमूहसाध्य इति ।
अत्र केचिदेवमपि निरूपयन्ति-ऋजुसूत्रः पुनरिदं मन्यते वर्तमानक्षणवत्यैव वस्तुरूपम्, न अतीतमनागतं च; अतीतस्य विनष्टत्वात्, अनागतस्य चानुत्पन्नत्वात्, खरविषाणस्येव अर्थक्रियाकारित्वाभावात् । यदेव अर्थक्रियाकारि, तदेव वस्तु, अत एवास्याभिप्रायेणानुपयोगित्वात् परकीयं वस्त्वप्यवस्त्वेव इति । . - यस्तु सर्वद्रव्यं सर्वथा प्रतिक्षिपति अखिलार्थानां प्रतिक्षणं क्षणिकत्वाभिमानात् स तदाभासः प्रतीतिविरुद्धत्वात्, इति ।
नयामृतम्
९४
suce et
see
ei vas
E SUGESUT SIC SIC SIC SICAJU
CAUCA