________________
मिथो 'विवदन्ते' विवादवन्तो भवन्ति । एवकारस्तु कदाचिदपि विवादापरिसमाप्तिसूचकः । ततोऽयं भावार्थ:-ये नया बौद्धादिभिः पृथग्भावेनाश्रिताः सन्तो 'मिथ्यात्वप्ररूपकाः, त एव नयाः श्रीजिनशासने समुदितत्वेनाश्रिताः सन्तः सम्यक्त्वप्ररूपका भवन्ति, इति तावत्सूत्रार्थः ।
ननु अयं सकलोऽपि विचारो नयानां लक्षणोदाहरणादिनिरूपणेनैव विदुषां चेतश्चमत्कारं करोति, तेनैतन्निरूपण्णीयम् इति चेतः निरूप्यते-तत्र अनिराकृतप्रतिपक्षो वस्त्वंशग्राही ज्ञातुरभिप्रायो नयः, निराकृतप्रतिपक्षस्तु नयाभासः, इत्यनयोः सामान्यलक्षणम् । ___ स च द्वेधा, द्रव्यार्थिकपर्यायार्थिकविकल्पात् । द्रव्यमेवार्थो विषयो यस्य, स द्रव्यार्थिकः । पर्याय एवार्थो यस्य, असौ पर्यायार्थिकः, इति नयविशेषलक्षणम् । तत्र आद्यो नैगम-सङ्ग्रह-व्यवहारविकल्पात् त्रिविधः, द्वितीयस्तु ऋजुसूत्रशब्द-समभिरूढ-एवम्भूतविकल्पाश्चतुर्विधः । ___तत्र अनिष्पन्नार्थसङ्कल्पग्राही नैगमः । निगमो हि सङ्कल्पः, तत्र भवः, तत्प्रयोजनो वा नैगमः । यथा-कश्चित्पुरुषो गृहीतकुठारो गच्छन् 'किमर्थं भवान् गच्छति ?' इति पृष्टः सन्नाह-प्रस्थमानेतुम्, इति । एधोदकाद्याहरणे वा व्याप्रियमाणः 'किं करोति भवान्' इति पृष्टः प्राह- ओदनं पचामि' इति । न चासौ प्रस्थपर्यायः, ओदनपर्यायो वा निष्पन्नः; सङ्कल्पमात्रे प्रस्थादिव्यवहारात्, । यद्वा नैकगमो. नैगमः, धर्मधर्मिणोर्गुणप्रधानभावेन विषयीकरणात् । 'जीवगुणः सुखम्' इत्यत्र हि जीवस्याप्राधान्यम्, विशेषणत्वात्; सुखस्य तु प्राधान्यम्, विशेष्यत्वात् । 'सुखी जीवः' इत्यादौ तु जीवस्य प्राधान्यम्, न सुखादेः, विपर्ययात् । न चास्यैव प्रमाणात्मकत्वानुषङ्गः, धर्मधर्मिणोः प्राधान्येनात्र ज्ञप्तेरसम्भवात् । तयोरन्यतर .. एव हि नैगमनयेन प्रधानतयाऽनुभूयते । प्राधान्येन द्रव्यपर्यायद्वयात्म
कमर्थमनुभवद्विज्ञानं प्रमाणे प्रतिपत्तव्यम् । प्रमाणनिरूपणं तु मत्कृतप्रमाणप्रकाशादवसेयम् ।
सर्वथा धर्मधर्मिणोरन्तरत्वाभिसन्धिस्तु नैगमाभासः, धर्मधर्मिणोः सर्वथाऽर्थान्तरत्वे धर्मिणि धर्माणां वृत्तिविरोधस्याग्रे प्रतिपाद्यमानत्वात्; इति ।
स्वजात्यविरोधेनैकत्वमुपनीयार्थानाक्रान्तभेदात् समस्तसङ्ग्रहणात् सङ्ग्रहः ।