________________
ननु संसर्गसम्बन्धयोः को भेदः ? इति चेत्; संसर्गे भेदः प्राधान्येन भवति, अभेदो गौण्येन; सम्बन्धे तु भेदो गौण्येन, अभेदः प्राधान्येन, इति तात्पर्यम् ।
य एवास्तित्वधर्मात्मकस्य घटस्य वाचकः शब्दः, स एवान्यधर्मात्मकस्यापि; इति शब्दाभेदवृत्तिः ।
इत्युक्तं सकलादेशस्वरूपम्। अयं च प्रमाणवाक्यापरपर्याय एव । विकलादेशस्वरूपं तु एतद्विपरीतत्वेन सुखावबोधत्वात् न सूत्रे प्रतिपादितम् । विकलादेशस्य सकलादेशवैपरीत्यं तु नयवाक्यात्मकत्वैनैभिरेव कालादिभिरष्टभिः कृत्वा भेदग्राहकत्वादेव ।
दुर्नयवाक्यं तु न सकलादेशात्मकम्, नापि विकलादेशात्मकम्, किन्तुसर्वथा हेयत्वाद्बहिष्कृतमेव । इति तृतीयवृत्तार्थः ।।३।।
अथ प्रमाणवाक्यनयवाक्ययोर्विषयस्तु नया एव, ते च के ? कियन्तः ? सङ्गताश्च कथं भवन्ति ? इति जिज्ञासायामाह- ...
क्रमानयाः सप्त परैर्गृहीताः
परस्परं ये विवदन्त एव । सप्तापि ते श्रीजिनशासनेऽस्मि
नेकीभवन्ति स्म जिनेन्द्रवाचा ।।४॥ .. व्याख्या-मिथो विरुद्धाः 'सप्तापि' 'नयाः' 'श्रीजिनेन्द्रवांचा' तीर्थकरोपदेशेन इत्यर्थः, 'एकीभवन्ति स्म,' इति सङ्गता बभूवुः; यथा-सर्वे पुत्रा मिथो विवादपरा: स्वपितुः पुरः समायातास्तदुपदेशेनैकीभवन्ति, तथा तेऽपि मिथो विरुद्धप्ररूपकत्वेन विवादपरा अनन्यगत्या भगवच्छासनाश्रयणाद्भगवत्पुरः समायाताः सन्तो भगवदुपदेशेन एकीभवन्ति स्म,' “एगेगो मिच्छावाई सव्वे सम्मत्तवाइणो" इति वचनात् समुदिता भवन्ति, इत्यर्थः ।
मिथो विरुद्धास्ते के नयाः ? इति, अतो यच्छब्दानुविद्धं व्याख्यानं पूर्वार्द्धनाह'क्रमात्' इति । नैगम-सङ्ग्रह-व्यवहार-ऋजुसूत्र-शब्द-समभिरूढ-एवम्भूताश्च, इति क्रमेण समुदितत्वाभावेन ये सप्तापि नयाः परैौद्धादिभिर्गृहीताः ‘परस्परं'
नयामृतम्
NOTATDANTARTICUDURATonsio
BUA