________________
के पुनः कालादय: ? काल:, आत्मरूपम्, अर्थः, सम्बन्धः, उपकारः, गुणिदेशः, संसर्गः, शब्दः, इति । - कथमेभिरभेदवृत्त्या एकस्मिन्नेव वस्तुनि युगपद्विरुद्धधर्मग्रह: ? इति चेत्; निशम्यताम्-‘स्याद् घटोऽस्त्येव' इत्यत्र घटे यत्कालमस्तित्वं तत्कालास्तत्रैव शेषा नास्तित्वादयो धर्माः सन्ति; इति कालेनाभेदवृत्तिः ।।
ननु अस्तित्वेन सहाविरुद्धानां द्रव्यत्वादीनां धर्माणामेकत्रापि कालेनाभेदवृत्तिर्भवतु, परं सर्वथा तद्विरुद्धानां नास्तित्वादीनां कथं सा सम्भवति ? इति चेत् सत्यम्, अस्तित्वनिरूपणसमये हि घटे नास्तित्वस्यापि वर्तमानत्वात् । तथा च अयमर्थः-'स्यादस्त्येव घटः' इत्युक्तेऽस्तित्वसमानाधिकरणा अनन्ता अपि धर्माः प्रतिपाद्यन्ते, घटत्वपृथुबुध्नोदराद्याकारवत्त्वद्रव्यत्वाभिधेयत्वप्रमेयत्वादिभिरनन्तैर्धमविशिष्टस्यैव घटस्य सत्तायोगात् । घटत्वाद्यनन्तधर्मावैशिष्ट्ये च घटस्यासत्त्वप्रसङ्गात्, तस्माद् घटेऽस्तित्व-कैवल्याभावेन केवलास्तित्वस्य वक्तुमशक्यत्वात्, तत्समानाधिकरणानन्तधर्माणामपि. तस्मिन्नेव काले प्रतिपादनात् कालेनाभेदवृत्तिः ।
'आत्मरूपम् घटपर्यायत्वादिकम्, तेनान्यधर्मः सहास्तित्वस्याभेदवृत्तिः । • यथा-अस्तित्वं घटपर्यायः, तथाऽन्येऽपि धर्मा घटपर्याया एव; इत्यर्थः ।
- 'अर्थः' नाम आधारः, ततो य एवं घटलक्षणोऽस्तित्वस्याधारः स एवापरधर्माणामपि; इत्यर्थाभेदवृत्तिः । ... 'सम्बन्धः' अविष्वग्भावरूपः, ततो य एवास्तित्वस्य घटेऽविष्वग्भावरूप:
सम्बन्धः स एवापरधर्माणामपि; इति सम्बन्धाभेदवृत्तिः । ..य एव घटे लोकप्रवृत्तिलक्षण उपकारोऽस्तित्वेन क्रियते, स एवान्यधर्मेरपि,
सकलधर्मविशिष्ट एव घटे लोकप्रवृत्तेर्जायमानत्वात्; इत्युपकाराभेदवृत्तिः । _ 'गुणी' घटः, तस्य 'देशः' क्षेत्रं भूतलादिकम्, तदाश्रित्य यथा घटेऽस्तित्वसद्भावः, तथाऽन्यधर्माणामपि; इति गुणिदेशाभेदवृत्तिः ।
भेदप्राधान्ये सति सम्बन्धः 'संसर्गः' ततो य एव घटेऽस्तित्वस्य संसर्गः स एवान्यधर्माणामपि; इति संसर्गाभेदवृत्तिः ।
नयामतम
"LASTDOODAICHODotoshoondon