________________
उभयरूपस्य संवेदनस्याभावात्; तथाहि-नाक्षजे विज्ञाने सदसत्त्वे प्रतिभासेते, असत्त्वस्यारूपत्वात्, रूपत्वे चासत्त्वविरोधात्, तथाऽनुभवाभावाञ्च ।
न च कार्यान्तरेणापि सदसद्रूपं वस्तु प्रतिपत्तुं शक्यते, यतो नोभयरूपं कार्यमुपलभ्यते । न च तत्कार्यकरणे प्रवर्तमानं केनचिदाकारेण करोति, केनचिन्न करोति; एकस्य करणाकरणविरोधात् । सर्वात्मना च करणे तद्भावरूपमेव स्यात्; तथाहि-नाभावः कस्यचिदपि कारणं भवितुमर्हति, अभावत्वविरोधात् तत्कारणत्वे च विश्वमदरिद्रं स्यात्, तत एव कटककुण्डलाद्युत्पत्तेः । अतः, श्रद्धागम्यमेवेदं ‘सदसद्रूपं वस्तु' इति ।
एतेन नित्यानित्यमपि प्रत्युक्तमेवावगन्तव्यम्, विरोधादेव-तथाहि - अप्रच्युतानु त्पन्नस्थिरैकस्वभावं नित्यमाख्यायते । प्रकृत्यैकक्षणस्थितिधर्मकं चानित्यम्, इति । ततश्च तद्यदि नित्यम् कथमनित्यम् ? अनित्यम् चेत्, कथं नित्यम् ? इति । ___ ननु नहि कूटस्थनित्यतया नित्यं द्रव्यमभ्युपगम्यतेऽस्माभिः, किन्तु पूर्वोत्तरक्षणविभागेन प्रबन्धवृत्त्या । नहि पर्यायाणामिव द्रव्यस्याप्युच्छेदः, तद्रूपेण तथा प्रतीतेः । पर्याया एव हि पर्यायरूपेण विरुध्यन्ते । । - ननु 'द्रव्यम्' इति नित्यमभ्युपगम्यते, इति चेत् तदयुक्तम्, यस्मादेषाऽत्र नित्यता न सम्भवति, पर्यायव्यतिरिक्तस्य द्रव्यस्यासिद्धेः; तथाहि-न पर्यायव्यतिरिक्तं द्रव्यमस्ति, तथाऽनुभवाभावात् । व्यतिरिक्तभावे त्वेकरूपैंकवस्तुवादहानिप्रसङ्गः । . व्यतिरिक्ताव्यतिरिक्तपक्षस्तु विरोधाघ्रातत्वादनुद्घोष्यः, इति ।
एतेन सामान्यविशेषरूपमपि प्रतिक्षिप्तमवगन्तव्यम्; तथाहि-एकं सामान्यम्, अनेके विशेषाः; तथा निरवयवं सामान्यम्, सावयवा विशेषाः; तथाऽक्रियं सामान्यम्, सक्रिया विशेषाः, तथा सर्वगतं सामान्यम्, असर्वगता विशेषाः ।। ततश्च-तद्यदि सामान्यरूपम्, कथं विशेषरूपम् ? चेद्विशेषरूपम्, कथं सामान्यरूपम् ? इति ।
किंच-सामान्योभयविशेषरूपत्वे सति वस्तुनः सकललोकव्यवहारप्रसिद्धसंव्यवहारनियमोच्छेदप्रसङ्गः; तथाहि-विषमोदकादिव्यक्त्याभिन्नमनानास्व
క
డ
ప
ట
ట
ల
డ ప
డ
డ
డా
డి డి ఎల్ ఎల్ ఎ
.