________________
भावमेकं सामान्यं वर्त्तते; ततश्च न विषं विषमेव, मोदकाद्यभिन्नसामान्याव्यतिरेकात् । नापि मोदको मोदक एव, विषाभिन्नसामान्याभेदात् । किं तर्हि ? उभयमपि उभयरूपम् । ततश्च विषार्थी विषे प्रवर्तते, मोदके च; एवं मोदकार्थ्यपि मोदके, विषे च । लोकस्तु विषार्थी विष एव प्रवर्त्तते, न मोदके; मोदकार्थ्यपि मोदक एव, न तु विषे; इत्यस्य नियमस्योच्छेदः स्यात् । तथा च-विषे भक्षितेऽपि मोदको भक्षितः स्यात्, मोदके भक्षिते विषं भक्षितं स्यात् । तथा च सति प्रतीतिविरोधः स्यात् ।
- ननु विषादिषु विशेषरूपताऽप्यस्त्येव, सा तदर्थिनो नियमेन प्रवृत्तेर्जीजम्, तद्भक्षणे नान्यभक्षणं स्यात् । एतदयुक्तम्, विकल्पानुपपत्तेः; तथाहिविषविशेषरूपता मोदकादिविशेषरूपव्यावृत्ता वा स्यात् ? तत्स्वरूपनियता वा ? न तावन्मोदकादिविशेषरूपव्यावृत्ता, तदनर्थान्तरभूतसामान्यव्यतिरेकात् । व्यतिरेके चोभयरूप-वस्तुवादहानिप्रसङ्गात् । व्यतिरेकाव्यतिरेकपक्षस्य चाविरोधेन तिरस्कृतत्वात् । नापि स्वरूपनियता, मोदकाद्यभिन्नसामान्यानन्तरत्वात् । अर्थान्तरत्वे च सैव विशेषरूपता अर्थक्रियार्थिप्रवृत्तिविषयत्वात् वस्त्वस्तु, तत्फलविशेषोपादानभावलक्षितस्वभावत्वाद्वस्तुनः । सा च तादृशी नान्यत्रास्ति, अर्थिनः प्रवृत्त्यभावात् । तत्त्यज्यतामुभयरूपैकवस्तुवादाभिमानः ।। एवमभिलाप्यमपि विरोधबाधितत्वादेवानुद्घोष्यम्; तथाहि-अभिलप्यते यत्तदभिलाप्यम्, अनभिलाप्यं चेत्; न तमुभिलाप्यम्, इति, एकस्यानेकविरुद्ध- धर्मानुगमाभावात् । . किंच-विरुद्धधर्माध्यासितस्वरूपत्वात् वस्तुनोऽनेकान्तवादिनो मुक्तयभावप्रसङ्गः; तथाहि- एतदात्माङ्गनाभवनमणिकनकधनधान्यादिकम्, अनात्मकम्, '. अनित्यम्, अशुचि, दुःखम्, इति कथञ्चिद्विज्ञाय भावतस्तथैव भावयतः, वस्तुतस्तत्राभिष्वङ्गास्पदाभावाद्, भावनाप्रकर्षविशेषतः वैराग्यमुपजायते; ततो मुक्तिः । यदा तु तदात्माऽङ्गनादिकं सात्मकाद्यपि, तदा यथोक्तभावनाऽभावात्, भावेऽपि मिथ्यात्वरूपत्वात्, वैराग्याभावः, तदभावाञ्च मुक्त्यभावः, इति ।। ___तदेवमेते मन्दमतयो दुस्तकोपहतास्तीर्थ्याः स्वयं नष्टाः परानपि मन्दमतीनाशयन्ति, इति प्रतिविधीयते ।
""Aatmanifessagesdowlancessionaortoo
n०५