________________
तत्र यत्तावदुक्तम्-“कथमेकमेव घटादिरूपं वस्तु सञ्चासञ्च भवति," तदेतदाबालगोपालाङ्गनादिप्रतीतमनाशङ्कनीयमेव; यतः तत्स्वद्रव्यक्षेत्रकालभावरूपेण सद्वर्तते, परद्रव्यक्षेत्रकालभावरूपेण चासत्; ततश्च सच्चासच्च भवति; अन्यथा तदभावप्रसङ्गात्; तथाहि-यदि तद्यथा स्वद्रव्यक्षेत्रकालभावरूपेण सद्वर्त्तते, तथैव परद्रव्यक्षेत्रकालभावरूपेणापि स्यात्। ततश्च तद्धटवस्त्वेव न स्यात् परद्रव्यक्षेत्रकालभावरूपेणासत्त्वे सति स्वद्रव्यक्षेत्रकालभावरूपेणाप्यसत्त्वात्, खरविषाणादिवत्; इत्येवं तदभावप्रसङ्गात्- सदभावप्रसङ्गात् सदसद्रूपं तदङ्गीकर्तव्यम्, इति ।
तथा च-द्रव्यतः-पार्थिवत्वेन सत्, नाबादित्वेन; क्षेत्रतः- इहत्यत्वेन, न. पाटलिपुत्रकादित्वेन; तथा कालतः-घटकालत्वेन; न मृत्पिण्डकपालकालत्वेन; तथा भावतः:श्यामत्वेन, न रक्तत्वादिना, इति । अन्यथेवररूपरंपत्त्या तत्त्वस्वरूपहानिप्रसङ्गः, इति ।
. . ... अत्र बौद्धः प्राह-नन्वेतत्स्वद्रव्यसत्त्वमेव परद्रव्यासत्त्वम्, एवं स्वक्षेत्रसत्त्वमेव परक्षेत्रासत्त्वम्, एवं स्वकालसत्त्वमेव परकालासत्त्वम्, एवं स्वभावसत्त्वमेव परभावासत्त्वम्, इति । तथा च-घटवस्तुनः पार्थिवद्रव्यसत्त्वमेव अबादिद्रव्यासत्त्वम्, तथेहक्षेत्रसत्त्वमेव पाटलिपुत्राद्यसत्त्वम्, तथा घटकालसत्त्वमेव मृत्पिण्डकपालकालासत्त्वम्, तथा श्यामत्वसत्त्वमेव रक्तत्वाद्यसत्त्वम्, इति । ।
एतदप्यसारम्, तस्यैकस्वभावत्वेऽवस्तुत्वप्रसङ्गात्; तथाहि-यदि पार्थिवद्रव्यसत्त्वमेव, अबादिद्रव्यासत्त्वम्, एवं तर्हि यथा तत्पार्थिवद्रव्यत्वेन सत्, एवमबादिद्रव्यत्वेनापि सदेव स्यात्; तत्सत्त्वाव्यतिरिक्तत्वादितरासत्त्वस्य; यथाऽबादि द्रव्यत्वेनासत्, तथा पार्थिवद्रव्यत्वेनापि असदेव स्यात्, तदसत्त्वाव्यतिरिक्तत्वात्तत्सत्त्वस्य । एवं यदि इहक्षेत्रसत्त्वमेव, पाटलिपुत्राद्यसत्त्वम्, ततश्च तद्यथेह सत्, तथा पाटलिपुत्रकादावपि स्यात्, इह सत्त्वाव्यतिरिक्तत्वात्तत्रासत्त्वस्य; यथा वा पाटलिपुत्रादावसत्, तथेहापि, तदसत्त्वाव्यतिरिक्तत्वादिहसत्त्वस्य । एवं यदि घटकालसत्त्वमेव, मृत्पिण्डकपालकालासत्त्वम्, ततश्च तद्यथा घटकाले सद्, एवं मृत्पिण्डकपालकालेऽपि स्यात्, तत्सत्त्वाव्यतिरिक्तत्वात्, तदसत्त्वस्य; यथा वा मृत्पिण्डकपालकालेऽसत्, तथा घटकालेऽपि स्यात्, तदसत्त्वाव्यतिरिक्तत्वात्
NTENNINNNNNNN RIOSIATICCESSAGE
नयामतम
U