________________
तत्सत्त्वस्य । एवं यदि श्यामत्वसत्त्वमेव, रक्तत्वाद्यसत्त्वम्, ततश्च तद्यथा श्यामत्वेन सत्, एवं रक्तत्वादिनाऽपि स्यात्, तदसत्त्वाव्यतिरिक्तत्वादितरासत्त्वस्य; यथा वा रक्तत्वादिनाऽसत्, तथा श्यामत्वेनापि स्यात्, तदसत्त्वाव्यतिरिक्तत्वात्तत्सत्त्वस्य ।
ततश्च तदितररूपापत्त्यादिनाऽवस्तुत्वप्रसङ्गः, इत्यलं स्वदर्शनानुरागाकृष्टचेतसा सह प्रसङ्गेन इति ।
ततश्चैवं न सर्वथा सत्त्वमसत्त्वपरिहारेण व्यवस्थितम्, न चासत्वं सत्त्वपरिहारेण ।
न चानयोरविशेष एव, भिन्ननिमित्तत्वात्; तथाहि-स्वद्रव्यादिरूपेण सत्, परद्रव्यादिरूपेण चासत्, इत्युक्तम्। ततश्चैवं सदसद्रूपं वस्त्वङ्गीकर्त्तव्यमेव ।
यदप्युक्तम्-“सदसद्रूपं वस्त्वभ्युपगच्छता सत्त्वमसत्त्वं च वस्तुधर्मतयाऽभ्युपगतं भवति,” एतदिष्यत एव । ___ यत्पुनरिदमुक्तम्-“ततश्चात्रापि वक्तव्यम्-धर्मधर्मिणोः कि तावद्भेदः ?" इत्यादि, अत्रापि सर्वथा भेदपक्षोदितोऽभेदपक्षोदितश्च दोषोऽनभ्युपगमतिरस्कृतत्वादेव न नः क्षतिमावहति । भेदाभेदपक्षस्त्वभ्युपगम्यत एव । ___ नन्वत्रापि “येन. प्रकारेण भेदः, तेन भेद एव ?” इत्यादिदूषणमुक्तम्, इति चेत् न, अधिकृतविकल्पस्यार्थापरिज्ञानात्, अन्योऽन्यव्याप्तिभावेन भेदाभेदपक्षस्य जात्यन्तरात्मकत्वात्केवलभेदानुपपत्तेः । न ह्यन्योऽन्यानुविद्धौ इति जैनमतम्, अभेदानंनुविद्धस्य केवलभेदस्यासिद्धेः, भेदाननुविद्धस्य चाभेदस्यासिद्धेः; अतो येनाकारेण भेदस्तेन भेद एव, इत्यर्थशून्यमेव । . अथ धर्मधर्मिणोर्भेदाभेदः' इति कोऽर्थः ? कथञ्चिद्भेदः, कथञ्चिदभेदः, इति । तत्र धर्माणां मिथो भेदात्प्रतिनियतधाश्रितत्वाञ्च कथञ्चिद्भेदः, । तथाहि-न धर्माणां धर्मिणा सर्वथैकत्वे धर्मतयापि भेदो युज्यते, इति प्रतीतमेतत् । तथा धर्माणामेवाभ्यन्तरीकृतधर्मिस्वरूपत्वाद्धर्मिणोऽपि चाभ्यन्तरीकृतधर्मस्वरूपत्वाञ्च कथञ्चिदभेदः, इति । न चात्यन्तभेदे धर्मधर्मिकल्पना युज्यते, अतिप्रसङ्गात् ।
ननूप्रेक्षितेयं धर्मधर्मिकल्पना, न तत्त्वतः, इति । एतदप्ययुक्तम्, दृष्टविरोधात् । न च दृष्टेऽनुपपन्नं नाम, अनुवृत्तव्यावृत्तस्वभावं च, तदेकस्वभाव एवासावनुभवो (नयामृतम् :**** ******R०७)