________________
घटप्रतिच्छायतयोपजायमानः पटादिप्रतिभासव्यवच्छेदेन ख्याप्यते । न पुनरस्य भावतो द्वे रूपे, इति चेत्, नैतद्युक्तम्, विहितोत्तरत्वात् 'तत्स्वरूपसत्त्वमेव परस्वरूपासत्त्वम्' इति निर्लोठितम् ।
किञ्च-एकान्तपर्यायनयमतानुसारिपक्षे कल्पनायोगात्; तथा हि-कल्पना वस्तुनि समुत्पन्ने वा स्यात् ? अनुत्पन्ने वा ? न तावदनुत्पने, तस्यैवासत्त्वात्; उत्पन्नेऽपि गृहीते वा स्याद् ? अगृहीते वा ? न तावदगृहीते अतिप्रसङ्गात्; गृहीतेऽपि च तद्ग्राहकस्य ज्ञानस्याविकल्पकत्वात्, विकल्पज्ञानस्य चातद्विषयत्वात्, भावकाले . च तदसत्त्वात् । तत्रैव कल्पना, इति चेत् न, विकल्पानुपपत्तेः; तथाहि- तत्राप्युत्पन्ने वा स्याद् ? अनुत्पन्ने वा ? नानुत्पन्ने असत्त्वात; नाप्युत्पन्ने, उत्पत्त्यनन्तराविना- . शित्वात् । विकल्पनारूपमेवोत्पद्यते, इति चेत् न, तस्य हेत्वयोगात् । हेत्वयोगश्च . स्वलक्षणादनुत्पतेः । स्वलक्षणानुभवाहितसंस्कारात्तजन्म, इति चेत् न, संस्कारस्यापि स्वलक्षणेतररूपानतिक्रमात्, इति ।
यञ्चोक्तम्-'भेदाभेदमभ्युपगच्छताऽवश्यं चेदमङ्गीकर्तव्यम्,-इह धर्मधर्मिणोधर्मधर्मितया भेदः, स्वभावतः पुनरभेदः, इत्यादि" एतदपि “धर्माणां मिथो भेदात्प्रतिनियतधाश्रितत्वाञ्च कथञ्चिन्द्रेदः" इत्यादिना प्रत्युक्तम्, प्रकारान्तरेण भेदाभेदासिद्धेः ।
यदप्युक्तम्-“संविनिष्ठाश्च विषयव्यवस्थितयः, न च सदसद्रूपं वस्तु संवेद्यते, उभयरुपस्य संवेदनस्याभावात्,” इत्यादि । एतदपि “अनुवृत्तव्यावृत्तस्वभावं वस्त्वध्यक्षतोऽवसीयते" इत्यादिना परिहृतम्, उभयरूपस्य संवेदनस्याबाधितत्वात् ।
यञ्चोक्तम्-“न च कार्यद्वारेणापि सदसद्रूपं वस्तु प्रतिपत्तुं शक्यते, यतो नोभयरूपं कार्यमुत्पद्यते," इत्यादि । एतदप्यनवकाशम्, वस्तुस्थित्योभयरूपस्योपलम्भस्य साधितत्वात् । “न च तत्कार्यकरणे प्रवर्तमानं केनचिदाकारेण करोति, केनचिन्न करोति, एकस्य करणाकरणविरोधात्,” इत्याद्यप्यसारम्, विरोधासिद्धेः; तथाहि-पर्यायात्मना करोति, द्रव्यात्मना न करोति, इति; कुत एकस्य करणाकरणविरोधः ? इति । अथवा स्वकार्यकर्तृत्वेन करोति, कार्यान्तराकर्तृत्वेन न करोति, अतः केनचिदाकारेण करोति, केनचिन्न करोति, कोऽत्र विरोधः ? . इति । तस्माद् व्यवस्थितमेतत् ‘सदसद्रूपं वस्तु' इति ।
డ డ డ
డ డ
డబుల్ బడా బడా బడా బడులు
"
.