________________
.. एतेन “नित्यानित्यमपि प्रत्युक्तमवगन्तव्यम्" इत्यादि यदुक्तम्, तदप्यनुपपन्नम्, प्रमाणतस्तदवगमात्; तथाहि-नित्यानित्यमेव तदवगम्यते, अन्यथा तदवगमाभावप्रसङ्गात्; तथाहि-यदि तदप्रच्युतानुत्पन्नस्थिरैकस्वभावं सर्वथा नित्यमभ्युपगम्यते, एवं तर्हि तद्विज्ञानजननस्वभावं वा स्यात् ? अजननस्वभावं वा ? यद्याद्यपक्षः, एवं सति सर्वत्र सर्वदा सर्वेषां तद्विज्ञानप्रसङ्गः, तस्यैकस्वभावत्वात्, न चैतदेवम्, क्वचित्कदाचित्कस्यचिदेव तद्विज्ञानभावात् । न चैकस्वभावस्य देशादिकृतो विशेषः इति कल्पना युज्यते, तद्भावेऽनित्यत्वप्रसङ्गात् । सहकारिणमपेक्ष्य जनयति, इति
चेत न, एकान्तनित्यस्यापेक्षायोगात्; तथाहि-'सहकारिणा तस्य कश्चिद्विशेषः क्रियते' इति वक्तुं तावदशक्यम्, यदि क्रियते स किमर्थान्तरभूतोऽनर्थान्तरभूतो वा ? यमर्थान्तरभूतस्तर्हि तस्य किमायातम् ? स तस्य विशेषकारकः इति चेत् अनवस्थाप्रसङ्गः; तथाहि स विशेषस्ततो भिन्नोऽभिन्नो वा ? इति प्रश्नावकाशात्तदेवावर्त्तते, इत्यनवस्था ।
अथानान्तरभूतः, स विद्यमान: ? अविद्यमानो वा ? यदि विद्यमानः, कथं क्रियते ? करणे वाऽनवस्थाप्रसङ्गः । . अथाविद्यमानः, व्याहतमेतत्; स ततोऽर्थान्तरभूतोऽविद्यमानश्चेति, करणे चानित्यत्वापत्तिरिति; तथाहि- तस्मिन्क्रियमाणे पदार्थ एव कृतः स्यात्, तदव्यतिरिक्तत्वात्तस्य । अथ, मा भूदेष दोषः, 'न क्रियते' इत्याश्रीयते । न सर्हि स तस्य सहकारी , तस्याकिञ्चित्करत्वात् । भावे वाऽतिप्रसङ्गः इति; तथाहि-यदि कंचन विशेषमकुर्वनपि स तस्य सहकार्यभ्युपगम्यते, सर्वभावानामेव तत्सहकारित्वप्रसङ्गः, तद्विशेषाकरणेनाविशेषात्, इति । ___ व्यर्था सहकारिकल्पना, इति चेत् न, एवंभूत एव तस्य वस्तुनः स्वभावः, येनाविशेषकारकमपि प्रतिनियतं सहकारिणमपेक्ष्य कार्यं जनयति, इति । : एतदपि मनोरथमात्रम्-विकल्पानुपपत्तेः, तद्धि यदाऽभीष्टसहकारिसन्निधौ कार्यं जनयति, तदाऽस्यानन्तरोदितसहकार्यपेक्षालक्षणस्वभावो व्यावर्तते न वा ? इति वक्तव्यम्; यदि व्यावर्त्तते, अनित्यत्वप्रसङ्गः, स्वभावव्यावृत्तौ स्वभाववतोऽपि तदव्यतिरेकेण तद्वदेव निवृत्तेः । अथ न व्यावर्त्तते, तर्हि कार्याजननप्रसङ्गः तत्स्वभावानिवृत्तेः, तथाहि-य एव तस्य कार्यजननावस्थायां स्वभावः, अजननावस्थायामपि स एव, इति कथं जनयति ? सर्वदा वा जननप्रसङ्गः,
DANGERamadamastiateCHESesotoscours